________________
सत्वभूतं विशेष्यं द्रव्यम् । सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोऽसत्त्वप्रकृतिर्गुणः ॥ १॥ पूर्वापरीभूतावयवा साध्यमानरूपा कृतिः क्रिया । उयाप्प्रत्ययादिसंस्कारहेतुः शब्दधर्मोऽर्थधम्मो वा लिङ्गम् । एकस्वादिसंख्या अर्थधर्मः । शक्तिः क्रियोत्पत्तिहेतुरित्यादि । समुच्चयो नामार्थः । डिस्थः । डवित्थः । गौः । अश्वः । शुक्लः । कारकः । दण्डी। छन्त्री । इत्यादि । अलिङ्गत्वे त्वम् । अहम् । पञ्च । कति । अलिङ्गमसंख्यम् । उच्चैः । नीचैः । तदयं वस्तुसंक्षेपः । त्याद्यन्तपदसामानाधिकरण्ये प्रथमेत्यर्थमात्रं चोपचरितमपि द्रोणो व्रीहिः । न चैकः द्वौ त्रयः इत्यत्रोक्तार्थानामप्रयोगात् विभक्तरप्राप्तिः । निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥१॥ एवमेको घट इति घटनिष्ठा संख्या सिनाऽभिधेया । एक इति स्पष्टार्थम् विशेषणम् । तत्र विभक्तिस्तु साधुत्वार्थमिति व्याख्येयम् ।
आमन्ये ॥२॥२॥३२॥ प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणं तद्विषय आमयः । तस्मिन्नर्थे वर्तमानानाम्नः प्रथमा विभक्तिर्भवति । हे देव ।
कर्तुाप्यं कर्म ॥२॥२॥३॥ का क्रियया यद्विशेषेणामिष्यते तत्कारकं व्याप्यं कर्मसंज्ञं स्यात् । ननु क्रियया कटादिजन्यं तत्तु क्रियाया अनन्तरभावि कार्यमस्तु परं न कारकं । क्रियाहेतुत्वाभावादिति चेन्न । कटादेरपि कादिकारकनिष्ठशक्तिरूपवत्वेन सत्वात् । अन्यथा नासतो जायते भावः इति वस्तूपत्तिरेव दुरापा । असतो भवने वन्ध्यापुत्रादेरपि उत्पत्तिः प्रसज्येत । अतएव ग्रन्थादी इयं चैयाकरणसिद्धान्तकौमुदी विरच्यते इति प्रयोगः । तत्कमे वेधा। निर्वयं विकार्य प्राप्यं च । तत्र यद्रूपव्यक्त्याऽसत्प्रतिभासं जायते जन्मना वा प्रकाश्यते तन्निवर्त्यम् । कटं करोति । पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद्विकृति प्राप्यते तद्धिकार्यम् । काष्ठं दहति । कन्यामलंकुरुते । यत्र तु क्रियाकृतो विशेषो नाप्यते तत्प्राप्यम् । आदित्यं पश्यति । ग्रामं गच्छति। कर्तुः किम् ? माघेष्वश्वं वनाति । कर्मण ईपिसता माषा न तु कर्तुः। वीति किम् ? पयसा ओदनं भुङ्क्ते । अत्र करणस्य मा भूत् ।
वाऽकर्मणामणिकर्ता णौ ॥२॥२॥४॥ अविवक्षितकर्मणामकर्मकाणामणिगवस्थायां वा यः कर्ता स णौ सति वा कर्म स्यात् । पचति चैत्रः । पाचयति चैत्रं चैत्रेण वा ।
कर्मणि ॥२॥२॥४०॥ गौणानाम्नः कर्मणि कारके द्वितीया स्यात् । आख्यातपदेनासमानाधिकरणं गौणम् । उक्ते तु प्रथमैवेत्युक्तम् । उक्तं कृत्तद्धितत्यादिसमासैः कारकादिकम् ।