________________
८५
ङयादीदूतः के || २|४|१०४ ॥
ङीप्रत्ययस्याकारेकारोकाराणां च के प्रत्यये परे ह्रस्वः स्यात् । कुमारिका । खट्टिका | सोमपिका | लक्ष्मिका ।
न कचि ॥ २|४|१०५॥
ज्यादीदूतः कचि प्रत्यये परे हखो न स्यात् । बहुकुमारीकः । बहुसोमपाकः । बहुब्रह्मबन्धूकः ।
नवापः || २|४|१०६॥
I
आपः कचि परे हो वा स्यात् । बहुमालाकः । बहुमालकः । कजभावे । बहुमालः ।
इति स्त्रीप्रत्ययप्रकरणम् ।
अथ विभक्त्यर्थप्रकरणम् ।
वासुपूज्य वपुषः सुरागता, ध्यातधानि दधतः सुरागता । मन्मनस्यपि दधे सुरागता, विस्मृतिं तदितरे सुरागताः ॥ १ ॥
क्रियाहेतुः कारकम् ॥२|१|१||
क्रियायां हेतुः कारणं कर्त्रादिकारकसंज्ञम् । तच द्रव्याणां खपराश्रयसमवेतक्रियानिर्वर्तकं सामर्थ्य शक्तिः । सा शक्तिः सहभूर्यावक्रयभाविनी क्रियाभवनकाले ह्याविर्भवति । करोतीति कारकमित्यन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितव्यापारस्य हेत्वादेर्निमित्तमात्रेण कारकसंज्ञा न स्यात् ।
स्वतन्त्रः कर्ता ॥ २॥१२॥
क्रियाहेतुभूतो यः क्रियासिद्भावपरायत्ततया प्राधान्येन विवक्ष्यते स कारकविशेषः कर्ता स्यात् ।
नाम्नः प्रथमैकद्विबहौ || २|२/३१ ॥
एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासंख्यं स्योजसलक्षणा प्रथमा विभक्तिः स्यात् । कर्मादिशक्तिषु द्वितीयादीनां विभक्तीनां विधास्यमात्वादिह विशेषानभिधानाच्च परिशिष्टेऽर्थमात्रे प्रथमेति विज्ञायते । तत्र द्वितीयादिनिर्मुक्तः स्वार्थद्रव्यलिङ्गसंख्याशक्तिलक्षणः समग्रोऽसमग्रो वा नामार्थोऽर्थमात्रम् । तेषु शब्दस्यार्थेषु प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रिया द्रव्यसम्बन्धादिरूपं त्वतलादिप्रत्ययाभिधेयं भावो विशेषणं गुण इति व्याख्येयः खार्थः ।