________________
*
पावटाद्वा ॥ २४॥६९॥
षकारान्तान्नाम्नोऽवटशब्दाच्च यजन्तात्स्त्रियां ङीर्वा स्यात्तत्सन्नियोगे डायन् चान्तः । पौतिमाष्या । पौतिमाष्यायणी । आवढ्या । आवट्यायनी । अवशब्दो गर्गादिः ।
यूनस्तिः || २|४|७७॥
युवन्शब्दात्स्त्रियां तिः प्रत्ययः स्यात् । नकारान्तत्वात् ङीप्राप्तौ तदपवादः । युवतिः । यूनीत्यपि कश्चित् । न तत् शिष्टसम्मतम् । कथं युवती । यौतेरौणादिकात् दितिप्रत्ययादितोऽक्त्यर्थादिति ङीः । यद्वा पौतेः शत्रन्तान् ङीप्रत्यये बोध्यम् ।
अनार्षे वृद्धेऽणिञबहुखर गुरूपान्त्यस्यान्त्यस्यप्यः
॥२॥४॥७८॥
अनार्षे वृद्धे यावणिञौ तदन्तस्य बहुवरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्प इत्यादेशः स्यात् । कुमुदस्येव गन्धोऽस्य कुमुदगन्धिः । तदपत्यं पौत्रादिस्त्री इत्यण् । तस्य ष्यादेशः । कौमुदगन्ध्या देवदत्या ।
गोश्चान्ते हवोऽनंशिसमासे यो बहुव्रीहौ ॥ २|४|९६ ॥
गौणस्यापि गोशब्दस्य ङयाद्यन्तस्य च नाम्नोऽन्ते वर्तमानस्य ह्रखः स्यात् । न चेदं शिसमासान्त इयखन्तबहुव्रीह्यन्तो वा स्यात् । चित्रा गावो यस्य स चित्रगुः । कौशाम्ब्या निर्गतो निष्कौशाम्बिः । गङ्गामतिक्रान्तोऽतिगङ्गः । अतिवामोरुः । गौणस्येत्येव । सुगौः । किंगौः । राजकुमारी । परमब्रह्मबन्धूः । नक्षत्रमाला | अक्किप इत्येव । गामिच्छति क्यन् गव्यतीति किपू । गौः । ततः प्रियो गौरस्य प्रियगौः । कुमारीमिच्छतीति क्यन् । किपू । कुमारी । ततः प्रियश्चासौ कुमारी च प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः । अतिभूः । अन्त इति किम् ? गोकुलम् । कुमारीप्रियः । कन्यापुरम् ।
ड्यापो बहुलं नानि ॥२४॥९९॥
ड्यन्तस्याबन्तस्य च नान्न उत्तरपदे परे संज्ञायां ह्रस्वः स्याद्वहुलम् । भरणिगुप्तः । रोहिणिमित्रः । महिदत्तः । शिलवहः । शिलप्रस्थः । गङ्गमहः । गङ्गदेवी । गङ्गादेवी । संज्ञायां किम् ? नदीस्रोतः । खट्टापादः । कचिन्न । नान्दीतूर्यम् । त्वे ॥ २|४|१००॥
ड्याषन्तस्य त्वे परे बहुलं ह्रस्वः स्यात् । रोहिणित्वम् । रोहिणीत्वम् । अजस्वम् । अजात्वम् ।