________________
अनमो मूलात् ॥२।४।५८॥ नवर्जितपूर्वपदान्मूलान्ताजातिवाचिनः स्त्रियां ङीः स्यात् । दर्भमूली।
इञइतः ॥२॥४॥७१॥ इप्रत्ययान्तानाम्न इकारान्तात् स्त्रियां डीः स्यात् । सुतंगमेन निर्वृत्ता इति इत्रि प्रत्यये सौतङ्गमी।
नुर्जातेः॥२॥४॥७२॥ __ मनुष्यस्य या जातिस्तद्वाचिनो नाम्न इकारान्तात् स्त्रियां ङी: स्यात् । अवन्तेः कुन्तेश्चापत्यमिति यः । तल्लोपे अवन्ती। कुन्ती । दाक्षी । यकारोपान्त्यादपि । उदमेयस्यापत्यमोदमेयी । मनुष्ये एव वाच्येऽयं विधिः । तेन तित्तिरिः। नान की। उतोऽप्राणिनश्वायुरज्वादिभ्यः ऊ॥२४॥७३॥
उकारान्तान्मनुष्यजातिवाचिनोऽप्राणिजातिवाचिनश्च नाम्नः स्त्रियामू स्यात्, युशब्दान्तं रज्वादींश्च वर्जयित्वा । कुरूः । इक्ष्वाकूः । अप्राणिनश्च अलाबूः । ककन्धूः । ब्रह्मा बन्धुरस्या ब्रह्मबन्धूः । उत इति किम् ? वधूः । नात्रोङ। ऊङिहि सति वधूमतिक्रान्तोऽतिवधूरित्यत्रातिब्रह्मषन्धुरित्यत्रेव हवः स्यात् । अप्राणिनश्चेति किम् ? आखुः । कृकवाकुः । जातो किम् ? पटुः । चिकीर्षुः स्त्री। अयुरज्वादिश्य इति किम् ? अध्वर्युर्ब्राह्मणी । कथं तर्हि भीरु गतं निवर्तते इति? भीरुशब्दस्य क्रियावाचित्वाजातिलक्षणोङभावे सम्बोधने ओकारः प्रामोति नैवम् । ताच्छीलिकानां संज्ञाप्रकारत्वान्मनुष्यजातिवचनत्वम् । तथा चोङि सति इस्खत्वं सिध्यति । अन्ये तु 'असूर्यपश्यरूपा त्वं किमु भीरुररार्यसे' इति प्रयोगदर्शनाजातिवचनस्वमनिच्छन्त ऊऊं न मन्यन्ते । रज्वादिवर्जनाद्रज्जुः हनुः।
बाह्वन्तकद्रुकमण्डलोर्नानि ॥२।४।७४॥ बाहुशब्दान्तानाम्नः कद्रुकमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ् स्यात् । भद्रबाहूः । कद्रूः। कमण्डलूः । नाम्नीति किम् ? वृत्तयाहुः। उपमानसहितसंहितसहशफवामलक्ष्मणादूरोः
॥२॥४॥७५॥ उपमानादिपूर्वपदादूरुशब्दास्त्रियामुङ् स्यात् । करभोरूः । संहितोरू। इत्यादि । लक्ष्मणोरू। आदिशब्दाल्लवणोरू। उपमानादेरिति किम् ? वृत्तोरू। पीनोरू।