________________
उत्पातेन ज्ञाप्ये ॥२॥२॥५९॥ चतुर्थी । 'वाताय कपिला विद्युत्' । .... हितसुखाभ्याम् ॥२॥२॥६५॥ योगे चतुर्थी था। आतुराय आतुरस्य वा हितम् । चैत्राय चैत्रस्य वा सुखम् ।
तुमोर्थों भाववचनात् ॥२॥२॥६॥ क्रियायां क्रियार्थायां यस्तुम् वक्ष्यते तस्यार्थे ये भावे धनादयो विधास्यन्ते तदन्तानाम्नश्चतुर्थी स्यात् । पाकाय व्रजति । पक्तुं व्रजतीत्यर्थ: । हेतुतृती. याशेषेषष्ट्यपवादः।
गम्यस्याप्ये ॥२॥२॥१२॥ यस्यार्थों गम्यते न च शब्दः प्रयुज्यते स गम्यः । तस्य तुमः कर्मणि चतुर्थी स्यात् । द्वितीयापवादः । फलेभ्यो याति । फलान्याहतु यातीत्यर्थः ।
शक्तार्थवषट्नमःस्वस्तिस्वाहास्वधाभिः ॥२॥२॥६९॥ ___एभिर्योगे चतुर्थी स्यात् । शक्तो मैत्रश्चैत्राय । वषडग्नये । नमोऽहं यः। स्वस्ति श्रीहीराय । अग्नये वाहा । पितृभ्यः स्वधा । नमस्कृत्य देवानित्यत्र जहखार्थवृत्तिपक्षाश्रयणात्कर्मणि द्वितीया । नमस्यति जिनानित्यादिवत् । नमस्कारेण क्रियाविशेषेण देवानित्यस्य योगो न पुनर्नमसा केवलेन । नमस्यतीत्यप्रापि नमस्य धातुना योगो न तु नमसा । स्वस्तिशब्दः क्षेमार्थः । तद्योगे आशिव्यषि परवान्नित्यमेव । खस्ति सङ्घाय भूयात् । .
मन्यस्यानावादिभ्योऽतिकुत्सने ॥२।२।६२॥
मन्यतेाप्ये वर्तमानाचतुर्थी वा स्यात् तिरस्कारे । न त्वां तृणाय तृणं वा मन्ये । दिवादिरयं न तु तनादिः । न त्वां तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वां नावं मन्ये । नौ काक अन्न शुक शृगाल एते नावादयः ।
गतेनवाऽनाप्ते ॥२॥२॥३॥ गत्यर्थकर्मणि वा चतुर्थी स्यात् । ग्रामं गच्छति ग्रामाय वा। गतेरिति किम् ? स्त्रियं गच्छति । मेरुं गच्छति । अत्र ज्ञानार्थे गमिः । अनाप्ते इति किम् ? पन्थानं गच्छति । कृद्योगे तु परत्वात्षष्ठ्येव । ग्रामस्य गन्ता । द्वितीयैवेत्यन्ये । ग्रामं गन्ता । चतुर्थी चेत्यन्ये । ग्रामं गन्ता । ग्रामाय गन्तेति । यदा उन्मार्गान्मार्ग एवाक्रमिष्यते तदा चतुर्थी स्यात् । उत्पथेन पन्थानं पथे वा गच्छति।
अपायेवधिरपादानम् ॥२२॥२९॥ सावधिक गमनमपायः तत्र यदवधिभूतमपायेनानधिष्ठितं तत्कारकमपादानं स्यात्।