________________
पञ्चम्यपादाने ॥२॥२॥६९॥ ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्ण पतति । कायिकापायवद्बुद्धिजन्माऽप्यपाय एव । अधर्माजुगुप्सते विरमति वा । धर्माप्रमाद्यति । चौरेभ्यो बिभेति उद्विजते वा। त्राणार्थयोगेऽपि। यवेभ्यो गां रक्षति निवारयति वा । अन्तधौं । उपाध्यायादन्तर्धत्ते । जनिकर्तुः प्रकृतौ । बीजादगुरो जायते ।
आख्यातर्युपयोगे ॥२॥२॥७३॥ आख्यातरि वक्तरि उपयोगे नियमपूर्वकविद्याग्रहणविषये गौणानाम्नः पश्चमी स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ।
गम्ययपः कर्माधारे ॥२॥२॥७४॥ प्रयोगेऽपठितयवादेशस्याध्याहरणीयस्य यत्कर्म आधारश्च तद्वाचिनो गौणान्नानः पश्चमी स्यात् । द्वितीयासप्तम्यपवादः। प्रासादात्प्रेक्षते । आसनाद्विलोकते। प्रासादमारुह्मासने चोपविश्य प्रेक्षत इत्यर्थः । श्वशुराजिहेति। श्वशुरं वीक्ष्येत्यर्थः। गम्यमानाऽपि क्रिया कारकविभक्तर्निमित्तम् । कस्मात्त्वमिति केनापि पृष्टे प्रास इति क्रिया गम्या । तदुत्तरं नद्या इति । अत्रापि प्राप्त इत्येव बोध्यम् ।
गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा ॥२॥२॥१०॥
यतोऽवधेर्विवक्षिताध्वनोऽन्तोऽवसानं भावलक्षणं तस्याऽध्वनोऽन्तेनैकार्य वा स्यात् । तद्विभक्तिस्तस्माद्भवतीत्यर्थः । गतशब्दे गम्यमाने । लोकमध्यात् लोकान्तः सप्तरज्जवः । वनाद् ग्रामो योजने योजनं वा । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे। प्रभृत्यन्यार्थदिक्शब्दवहिरारादितरैः ॥२।२।७५॥
प्रभृत्यर्थैरन्याथै र्दिकशब्दैहिस आरात् इतर इत्येतेश्च शब्दैर्युक्तागौणानाम्नः पश्चमी स्यात्। कार्तिक्याः प्रभृति । ग्रीष्मादारभ्य । अन्यो मैत्रात्। भिन्नश्चैत्रात् । ग्रामात्पूर्वस्यां दिशि वसति देशेऽपि दिवशब्देन योगे। पूर्व उज्जयिन्या गोनर्दः । पश्चिमो रामाधुधिष्ठिरः। पूर्वश्चैत्रात्फाल्गुनः। क्रोशाल्लक्ष्यं विध्यति । बहिनीमाद्वटः । आराद्रामाक्षेत्रम् । समीपे इत्यर्थः । आरान्मैत्रात्पीठम् । दूरे इत्यर्थः। आरादित्यस्य प्रयोगे नित्यं पञ्चमी । इतरश्चैत्रात्तस्य द्वितीयो मैत्रादिरित्यर्थः । इतरशब्दोऽयं द्वयोरुपलक्षितयोर्मध्यादन्यतरवचनः । तेनान्यार्थीद्भेदः।
आङावधी ॥२॥२॥७॥ अवधिर्मर्यादाभिषिधिरपि । तद्विषय इति तस्यापि ग्रहणम् । अवधौ