________________
वर्तमानादाढा युक्ताद्गौणान्नानः पञ्चमी । आपाटलिपुत्राद्धृष्टो मेघः । पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा वृष्ट इत्यर्थः।।
पर्यपाभ्यां वयें ॥२॥२७॥ वर्जनीयाथै आभ्यां युक्तानाम्नः पञ्चमी स्यात् । परि ग्रामादृष्टो मेघः। ग्राम वर्जयित्वेत्यर्थः । अपग्रामाद गतौरः । ग्रामं त्यक्त्वा गत इत्यर्थः । वयं इति किम् ? अपशब्दो मैत्रस्य ।
यतः प्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥
प्रतिनिधिमुख्यतुल्योऽर्थः । प्रतिदानं गृहीतस्य प्रत्यर्पणं विशोधनमिति यावत् । ते यतः स्यातां तत्र वर्तमानाद्गौणान्नानः पश्चमी स्यात् । प्रद्युम्नो वासुदेवारप्रति । कृष्णतुल्य इत्यर्थः । तिलेभ्यः प्रति माषान् तस्मै प्रयच्छति । तिलाँल्लात्वा माषान् दत्ते इत्यर्थः ।
ऋणाद्धेतोः ॥२॥२॥७६॥ हेतुभूतऋणवाचिनो गौणान्नानः पश्चमी स्यात् । तृतीयापवादः। शताद्धः। हेतोरिति किम् ? शतेन बन्धितः । शतमत्र कर्तृपदम् ।
गुणादस्त्रियां न वा ॥२॥२॥७७॥ गुणहेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाज्यात् जाड्येन वा बद्धः । गुणेति किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । अस्त्यत्राग्निधूमात् । सर्वमनेकान्तात्मकं सत्वान्यथानुपपत्तेः इत्यादौ । नाग्यादेधूमादिहेतुः किन्तु तज्ज्ञानस्य । पञ्चमी खत्र गम्ययपः कर्माधारे इति । धूमादिकमुपलभ्याझ्यादिः प्रति
पत्तव्यः ।
पृथग् नाना पञ्चमी च ॥२।२।११३ ॥ आभ्यां योगे गौणान्नान्नः पञ्चमी तृतीया च स्यात् । पृथङ् मैत्रात् । मैत्रेण वा। नाना चैत्रात् चैत्रेण वा । यदा पृथगनानाशब्दावन्यार्थों तदा प्रभृत्यादिसूत्रेण पञ्चमी सिद्धा। तृतीयाथै तु वचनम् । यदा त्वसहायार्थों तदा पञ्चमीविधिः।
विना ते तृतीया च ॥२२।११५॥ विनायोगे गौणानाम्नो द्वितीयापञ्चम्यौ तृतीया च स्युः । विना धर्मेण धर्मादू धर्म वा कुतः सुखम् ?
ऋते द्वितीया च ॥२।२।११४॥ ऋते इत्यव्ययं वर्जने । तद्योगे नानो द्वितीया पञ्चमी च स्यात् । ऋते धर्मान्न धनम् । ऋते ज्ञानान्न मुक्तिः।चित्रं यथाश्रयमृते।नस्यविक्रियते रागमृते।