________________
स्तोकाल्पकृच्छकतिपयादसत्त्वेकरणे ॥२॥२॥७९॥
एभ्योऽद्रव्यवचनेभ्यः करणेऽर्थे पञ्चमी वा स्यात् । स्तोकेन स्तोकाद्वा मुक्तः। द्रव्ये तु स्तोकेन विषेण हतः । करणत्वात्तृतीया।
आरादर्थैः ॥२।२७८॥ दूराथै रन्तिकार्यैश्च योगे गौणानाम्नः पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा ग्रामस्य ग्रामाद्वा वनम् ।
असत्त्वारादर्थाट्टाङसिङ्यम् ॥२॥२॥१२०॥
अद्रव्यवाचिनो दरार्थीदन्तिकार्थाच टा उसि डि अम् एते प्रत्ययाः स्युः। नामार्थमात्रे विधिरयम् । दूरेण दूरात् दूरे दूरं वा पर्वतः। एवं ग्रामाद् ग्रामस्यवाऽन्तिकेन अन्तिकात् अन्तिके अन्तिकं वाऽऽगतः । द्रव्यवचने तु दूरः पन्थाः ।
शेषे ॥२।२।८३॥ कर्मादिभ्योऽन्यः खखामिभावादिसम्बन्धः शेषस्तत्र वर्तमानागौणान्नानः षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि कारकाणां सम्बन्धमात्रविवक्षया षष्ठी भवत्येव । माषाणामश्नीयात् । सुभाषितस्य शिक्षते । सतां गतम् । न ते सुखस्य जानते । शेतेऽहंतश्चरणयोः । वृक्षस्य पर्ण पतति । महतां विभाषते । कर्मादिकस्य सतोऽप्यविवक्षा । कृष्णशुक्लपक्षयोश्चन्द्रस्य प्रभाया इव । यद्वा अनुदरा कन्या इत्यादिवत् ।
हेत्वथै स्तृतीयाद्याः ॥२॥२॥११८॥ हेतुर्निमित्तं कारणमिति । एतदथैः शब्दैर्युक्तात्तैरेव समानाधिकरणागौणान्नानस्तृतीयाया विभक्तयः स्युः । धनेन हेतुना । धनाय हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने हेती वसति । एवं निमित्तकारणशब्दाभ्यामप्युदाहरणीयम् ।
सर्वादेः सर्वाः ॥२।२।११९॥ ___ हेत्वर्थयुक्तात्समानाधिकरणात्सर्वादेर्नानः सर्वा विभक्तयः स्युः । को हेतुवसति चैत्रः । एवं कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ वसति चैत्रः।
रिरिष्टात्स्तादस्तादसतसाता ॥२।२।८२॥ रिरिष्टात् स्तात् अस्तात् अस् अतसू आत् एतत्प्रत्ययान्तयुक्तागौणान्नानः षष्ठी स्यात् । उपरि ग्रामस्य । उपरिष्टादू ग्रामस्य । परस्ताद ग्रामस्य । अवरस्तादू गृहस्य । पुरस्ताद्विहारस्य । एवम् अवस्तात् । अधस्तात् । अस्प्रत्यये पुरो