________________
ग्रामस्य । अतसि, दक्षिणतो ग्रामस्य । आतिप्रत्यये, अधराद्रामस्य । दक्षिणाद ग्रामस्य । पश्चाच्चैत्रस्य । पञ्चम्यपवादो योगः।
द्वितीयाषष्ठ्यावेनेनानश्चेः ॥२॥२॥११७॥ एनेन योगे द्वितीयाषष्ठ्यो, न चेत्सोऽचे परो विहितो भवति । दक्षिणेन ग्राम ग्रामस्य वा वसति । एवमुत्तरेण परेण ग्रामं ग्रामस्य वा वसति । अनश्चेरिति किम् ? प्राग ग्रामात् ।
अज्ञाने ज्ञः षष्ठी ॥२।२।८०॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः सम्बन्धिनि करणे वर्तमानाद्गौणानाम्नः षष्ठी स्यात् । सर्पिषो जानीते ।. सर्पिषा करणभूतेन ज्ञानम् । अत्र ज्ञाधातु: प्रवृत्त्यर्थः।
स्मृत्यर्थदयेशः ॥२॥२॥११॥ एषामाप्यं कर्म वा स्यात् । मातुः स्मरति । सर्पिषो दयते । लोकानामीष्टे । पक्षे द्वितीया । मातरं स्मरति । सर्पिर्दयते । लोकानीष्टे ।
कृगः प्रतियत्ने ॥२॥२॥१२॥ पुनर्यन प्रतियलो गुणाधानम् । तत्र कृगो व्याप्यं कर्म वा स्यात् । एधो दकस्योपस्कुरुते । एधोदकं वा।
रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि ॥२॥२॥१३॥
भावकर्तृकाणां ज्वरिसन्तापिवर्जरुजार्थानां व्याप्यं कर्म वा । चौरस्य चौरं वा रुजति व्यथयति पीडयति वा रोगः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा। श्लेष्मा द्रव्यं न भावः । रोगो व्याधिरामय इत्यादयो भावरूपाः कर्तारः।
नाथः ॥२॥२॥१०॥ आशीरर्थस्य नायतेाध्यं कर्म वा स्यात् । सर्पिषो नाथते । सर्पिोथते वा। सर्पिर्मे भूयादित्याशास्त इत्यर्थः । आत्मनेपदमस्याशिषि, तदभवः पुनमुपनाथति पाठाय । उपयाचते इत्यर्थः।
जासनाटकाथपिषो हिंसायाम् ॥२॥२॥१४॥ हिंसार्थानामेषां व्याप्यं कर्म वा स्यात् । जसण ताडने चुरादिः। ब्रूस पिस जस बर्हण हिंसायाम् । अयमपि तथा। चौरस्य चौरं वोजासयति । नटण् अवस्यन्दने न तु णट् नृत्ती । चौरस्योन्नाटयति । क्राथिर्घटादिः। चौरस्योत्क्राथयति। काथेः कर्मसंज्ञायां चौरमुत्कथयतीति इखः । चौरस्य पिनष्टि । हिंसायामिति किम् ? चौरं बन्धेनोजासयति मोचयतीत्यर्थः ।