________________
निप्रेभ्यो नः ॥२॥२॥११॥ समस्तव्यस्तविपर्यस्तनिप्रपूर्वस्य हन्तेाप्यं कर्म या स्यात् । चौरस्य निहन्ति । प्रहन्ति । निप्रहन्ति प्रणिहन्ति वा। कर्मत्वविवक्षायां द्वितीया। चौरं निहन्तीत्यादि।
विनिमेयातपणंपणव्यवहोः ॥२॥२॥१६॥ क्रेयविक्रेयोऽर्थो विनिमेयः। यूतपणो द्यूतजेयम् । तौ पणतेर्धातोर्व्यवपूर्वस्य हरतेश्च सम्बन्धिनौ कर्मसंज्ञौ वा स्याताम् । शतस्य पणायति । दशानां व्यवहरति। पक्षे शतं पणायति । दश व्यवहरति । विनिमेयद्यूतपणमिति किम् ? साधून पणायति स्तोतीत्यर्थः। शलाकां व्यवहरति । विगणयन् गोपायतीत्यर्थः ।
न ॥२॥२॥१८॥ विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न स्याताम् । शतस्य दीव्यति।
उपसर्गादिवः ॥२॥२॥१७॥ उपसर्गात्परस्य दिवो व्याप्यो विनिमेयद्यूतपणौ वा कर्मसंज्ञौ स्तः । शतस्य शतं वा प्रदीव्यति।
नवा सुजथैः काले ॥२।२।९६॥ सुचोऽर्थे वारलक्षणे प्रयुज्यमाने कालेऽधिकरणे सप्तमी वा स्यात् । पक्षे शेषे षष्ठी । द्विरहि भुङ्क्ते । पक्षे द्विरहो भुङ्क्ते । सुजथैः किम् ? अहि भुते।
कर्मणि कृतः ॥२।२।८३॥ कृदन्तस्य सम्बन्धिनि कर्मणि गौणान्नानः षष्ठी स्यात् । तीर्थस्य कर्ता। ग्रामस्य गमनम् । द्वितीयापवादः।
कर्तरि ॥२॥२॥८६॥ कृदन्तस्य कर्तरि षष्ठी। भवतः खापः । भवत आसिका।
वैकत्र द्वयोः ॥२।२।८५॥ द्विकर्मकधातोर्द्वयोः कर्मणोरेकत्र षष्ठी वा स्यात् । अजाया नेता ग्रामस्य । यद्वा अजां नेता ग्रामस्य ।
द्विहेतोरख्यणकस्य वा ॥२।२।८७॥ रूयधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठ्योः प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा स्यात् । आश्चर्यों गवां दोहोऽगोपेनागोपस्य वा अरूयण