________________
१००
कस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानाम् । नित्यं प्राप्त विभाषेयम् । विचित्रा सूत्रस्य कृतिराचार्पणाचार्यस्य वा । वर्तमानार्थस्य क्तस्य योगेऽपि षष्ठी। राज्ञां मतो बुद्धः पूजितो वा।
क्तयोरसदाधारे ॥२॥२॥९॥ सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यो क्तौ क्तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । घटः कृतो मैत्रेण । घटं कृतवान्मैत्रः । असदाधार इति किम् ? राज्ञां ज्ञातः । ज्ञानेच्छादिकृदन्तसूत्रेण वर्तमाने क्तः । आधार इति किम् ? इदमेषां हसितं शयितं वा । अद्यार्थाचाधारे इति क्तः।
वा क्लीवे ॥२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । छात्रस्य छात्रेण वा हसितम् । तृन्नुदन्ताव्ययकस्वानातृशशतृङिणकच्खलर्थस्य
॥२॥२॥९ ॥ तृन उदन्तस्याव्ययस्य कसोरानस्यातृशः शतुर्डि णकच्खलर्थस्य च कृतः कर्मकोंः षष्ठी न स्यात् । वदिता जनापवादान् । कन्यामलंकरिष्णुः । कटं कृत्वा । ओदनं भोक्तुम् । पायं पायं पयो याति । ओदनं पेचिवान् । तत्त्वं विद्वान् । आनेत्यनेन कानशानशामुत्सृष्टानुबन्धविशेषाणां ग्रहणम् । घटं चक्राणः। वचनमनूचानः। मलयं पवमानः । वपुर्भूषयमाणः । ओदनं पचमानः । कटं करिष्यमाणः । अधीयन सूत्रम् । कटं कुर्वन् करिष्यन् वा । परीषहं सासहिः । रामः सोमं पपिः। कटं कारको याति । चकारेनिर्देशात् णकोऽत्र न ग्रायः । घटस्य पूरकः । सुकरो घटस्त्वया । इषत्करो घटो भवता।
द्विषो वातृशः ॥२॥२॥८४॥ अतृशन्तस्य द्विषः कर्मणि षष्ठी वा । चौरस्य द्विषन् चौरं वा । सर्वोऽयं कारकषष्ट्या निषेधः । शेषे षष्ठी तु स्यादेव । वदिता जनापवादस्य । गेहस्य जिष्णुः।
अकमेरुकस्य ॥२।२।८३॥ कमधातुवर्धोकप्रत्ययान्तस्य कर्मणि न षष्ठी । भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः ।
एष्यहणेनः ॥२।२।९४॥ . एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । इणिनोर्ग्रहात्