________________
ग्रामं गमी । ग्राम गामी । ग्राममागमी । ग्राममागामी । शतं दायी । एष्यहणेति किम् ? अवश्यंकारी कटस्य । साधुदायी वित्तस्य ।
कृत्यस्य वा ॥२।२।८८॥ कृत्यस्य कर्तरि गौणान्नाम्नः षष्ठी वा स्यात् । मया मम वा पूज्यो जिनः । कर्तरि किम् ? गेयो माणवको ग्राथानाम् ।
नोभयोहेतोः ॥२।२।८९॥ उभयोः कर्तृकर्मणोः षष्ठीहेतुर्थः कृत्यस्तस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ।
क्रियाश्रयस्याधारोऽधिकरणम् ॥२॥२॥३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तत्कारकमधिकरणं स्यात् ।
सप्तम्यधिकरणे ॥२॥२।९५॥ अधिकरणे कारके गौणानाम्नः सप्तमी स्यात् । दिवि देवाः । कटे शेते कुमारी । तिलेषु तैलम् । गुरौ वसति । युद्धे सन्नह्यते । अङ्गुल्यग्रे करिशतम् । अनन्यत्र भावो विषयस्तस्मै प्रभवति वैषयिकम् । भुवि मनुष्याः। एकदेशमात्रसंयोग उपश्लेषस्तत्र भवमोपश्लेषिकम् । पर्यङ्के शेते । यत्राधाराधेययोः सर्वावयवयोगस्तदभिव्यापकम् । दनि सर्पिः। तन्तुषु पटः । आधेयसनिधिमात्रेण क्रियाहेतु तत्सामीपिकम् । गङ्गायां घोषः। वटे गावस्तिष्ठन्ति । निमित्तमेव नैमित्तिकम् । शरदि पुष्प्यन्ति वनानि । औपचारिकं तूपचारे भवम् । राजा मम मुष्टिमध्ये इत्यादि।
व्याप्येक्तेनः ॥२।२।९९॥ इष्टमनेनेत्याद्यर्थे तद्धिते इन्वक्ष्यते । क्तप्रत्ययान्ताथ इन् तदन्तस्य व्याप्ये वर्तमानाद्गौणान्नान्नः सप्तमी स्यात् । अधीतं व्याकरणमनेनेत्यधीती व्याकरणे ।
साधुना ॥२२।१०२॥ अनेन योगे नाम्नः सप्तमी । साधुमैत्रो राजनि । साधुर्मातरि । अप्रत्यादावित्येव । तेन साधुमैत्रो राजानं प्रति राजानं परि राजानमनु राजानमभि तत्त्वाख्याने विधिरयम् ।
अप्रत्यादावसाधुना ॥२॥२॥१०॥ असाधुशब्दयोगेऽप्येवम् । असाधुमैत्रो मातरि।
तुल्यार्थस्तृतीयाषष्ठ्यौ ॥२।२।११६॥