________________
१०२
... तुल्याथैोंगे. नाम्नस्तृतीया षष्टी च स्यात् । मात्रा तुल्यः । मातुस्तुल्यः। अर्थग्रहणं पर्यायार्थम् । उपमा नास्ति देवस्येत्यादौ न तुल्यता, तेन न तृतीया।
तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि ॥२॥२॥६६॥ - तदितिहितसुखयोः परामर्शः। हिताद्यर्थैर्युक्तागौणानाम्नश्चतुर्थी वा स्यादाशिषि । हितं जीवानां जीवेश्यो वा भूयात् । सुखं प्रजानां प्रजाभ्यो वा भूयात् । अर्थकथनात् शं सङ्घाय सवस्य वा भूयात् । भद्रं हीराय हीरस्य चा भूयात् । कल्याणं श्रीवीराय वीरस्य वाऽस्तु । आयुष्यमस्तु चैत्राय चैत्रस्य चा।
तद्युक्ते हेतौ ॥२॥२॥१०॥ हेतुर्निमित्तं कारणम् । तेन योगे हेतो नः सप्तमी स्यात् । हेतुतृतीयापवादः। 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुश्वरम् । केशेषु चमरी हन्ति सीनि पुष्कलको हतः ॥' सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । तद्युक्त इति किम्? वेतनेन धान्यं लुनाति ।
यद्भावो भावलक्षणम् ॥२।२।१०६॥ यस्य क्रिययाऽपरा क्रिया लक्ष्यते ततः सप्तमी स्यात् । गोषु दुधमानासु गतः। यत्र क्रियाहर्हाणां कारकत्वं तद्विपर्ययो वा । यथा ऋद्धेषु भुनानेषु दरिद्रा आसते । ऋद्वेष्वासीनेषु दरिद्रा भुञ्जते । यत्र क्रियानर्हाणामकारकत्वं तद्विपययो वा । यथा दरिद्वेष्वासीनेषु ऋद्धा भुञ्जते । दरिद्रेषु भुञ्जानेषु ऋद्धा आसते। तत्रापि भावलक्षणं स्यादिति सप्तमी।
षष्ठी वाऽनादरे ॥२।२।१०८॥ अनादरे गम्यमाने भावलक्षणे षष्ठी वा स्यात् । पक्षे पूर्वेण सप्तमी। रुदतो लोकस्य रुदति लोके वा प्रावाजीत् पुत्रः। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः
॥२।२।९८॥ एभिर्योगे गौणान्नाम्नः सप्तमी वा स्यात् । पक्षे शेषे षष्ठी । गोषु गवां वा खामी । गोषु गवां वा दायाद इत्यादि । वामीश्वराधिपतीतिपर्यायग्रहणात् पर्यायान्तरयोगे न स्यात् । ग्रामस्य राजा । ग्रामस्य पतिः।
कुशलायुक्तेनासेवायाम् ॥२।२।९७॥ कुशलो निपुणः। आयुक्तो व्यापृतः । आभ्यां योगे आधारनाम्नः सप्तमी वा स्यात् आसेवायां तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे। आयुक्तस्तपश्च