________________
१०३
रणे । पक्षे आधाराविवक्षणात् शेषे षष्ठी । आसेवायामिति किम् ? कुशलचित्रकर्मणि न च करोति । आयुक्तो गौः शकटे आकृष्य युक्तो न तु व्याष्टत इत्यर्थः । अत्र सप्तम्येव ।
सप्तमी चाविभागे निर्धारणे ॥ २|२| १०९॥
जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम् । तस्मिन् गम्यमाने गौणान्नाम्नः षष्ठी सप्तमी च स्यात्, अविभागेऽशांशिनोरैक्ये कथंचिच्छन्दाद्गम्यमाने । नृणां नृषु वा क्षत्रियः शूरः । शालयः शुकधान्यानां शुकधान्येषु वा पथ्यतमाः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ् शीघ्रतमः । अविभाग इति किम् ? माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । मैत्राच्चैत्रः पटुः । अयमस्मादधिकः । अत्र शब्दाद्भेदस्यैव प्रतीतिर्नतु कथंचिदैक्यस्येति पञ्चम्येव ।
निपुणेन चार्चायाम् || २|२|१०६ ॥
निपुणशब्देन साधुशब्देन च योगे सप्तमी स्यादर्थायां गम्यमानायाम् । षष्ट्यपवादः । मातरि निपुणः । पितरि साधुः । अर्चायामिति किम् ? निपुणो मैत्रो मातुः । मातैव तं निपुणं मन्यते इत्यनर्चायां न स्यात् । अप्रत्यादावित्येव । निपुणः चैत्रो मातरं प्रति परि अनु अभि वा ।
प्रसितोत्सुकाववद्धैः ॥ २|२|४९ ॥
एभिर्योगे आधारवृत्तेगणान्नान्नस्तृतीया वा स्यात् । केशैः केशेषु वा प्रसितः । गृहेणोत्सुकः । गृहे उत्सुकः । केशैरवबद्धः केशेषु वा । सम्बन्धविवक्षायां षष्ठीबाधनार्थं वचनम् ।
कालेभान्नवाधारे ॥२२॥४८॥
काले वर्तमानान्नक्षत्रवाचिनो गौणान्नाम्नः आधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । मधाभिर्मघासु वा मधुरौदनम् ।
क्रियामध्येऽभ्वकाले पञ्चमी च ॥ २२॥११०॥
क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानागौणान्नाम्नः पञ्चमी स्याच्चासप्तमी । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्यति । अद्य भुक्त्वा मुनिहादू भोक्ता । द्र्यहे वा भोक्ता ।
अधिकेन भूयसस्ते ॥२|२|१११ ॥
अधिकशब्देन योगे भूयोवाचिनो गौणान्नान्नस्ते सप्तमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खार्याम् । खार्या वा ।