________________
१०४
तृतीयापीयसः ॥ २।२।११२॥
भूयोवाचिनाधिकेन योगेऽल्पीयोवाचका गौणान्नान्नस्तृतीया स्यात् । अधिका खारी द्रोणेन । लोके लोकाद्वाऽधिको जैनधर्मः ।
1
स्वेशेऽधिना ॥२२॥१०४॥
स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्ताद्गौणान्नाम्नः सप्तमी स्यात् । अधि मगधेषु श्रेणिकः । अधिश्रेणिके मगधाः । षष्ठीबाघार्थी योगः ।
उपेनाधिकिनि ॥२२॥१०५॥
उपेन युक्तादधिकिनि वर्तमानागौणान्नाम्नः सप्तमी स्यात् । उपखार्थ्यां द्रोणः । द्रोणोऽधिकः खार्या इत्यर्थः । उपपरार्धेऽर्हगुणाः । परार्धादधिका इत्यर्थः । स्वाभ्येऽधि ||३|१|१३॥
अधि इत्येतदव्ययं खामित्वे गम्यमाने कृगो धातोः सम्बन्धि गतिसंज्ञं वा स्यात् । चैत्रं ग्रामेऽधिकृत्याधिकृत्वा वा गतः । खामिनं कृत्वेत्यर्थः । स्वाम्य इति किम् ? ग्राममधिकृत्योद्दिश्य गच्छामि । गतिसंज्ञाऽभावे धातोः प्राक्त्वानियमः । अधिकृतः कृतोऽघि ग्रामे चैत्रः ।
इति श्रीचन्द्रप्रभायां प्रक्रिकायां विभक्त्यर्थाधिकारः ।
अथ समासप्रकरणम् ।
सत्क्रियासुकृतवर्मणः फलं, सत्क्रियासुकृतवर्मणः क्षितौ । नुरास विमलः स्तुनोऽमरे मह जिस पन वस्तुतोमरैः ॥ १ ॥ विभक्त्यर्थनिर्णयात्पदनिर्णयः । अथ पदयोजनलक्षणः समासः प्रतिपाद्यते ।
समर्थः पदविधिः ॥७|४|१२२ ॥
पदसम्बन्धी यो विधिः स समर्थाश्रितो ज्ञेयः ।
नामनाम्नैकायै समासो बहुलम् ||३|१|१६॥
नाम नाम्ना सहकार्ये परस्परान्वयलक्षणे सामर्थ्य सति समाससंज्ञ स्यात् । बहुलं प्रवृत्य प्रवृत्त्यादिरूपं मन्तव्यम् । लक्षणमधिकारश्रेदम् । तेन विशेषसंज्ञाऽभावेऽपि यन्त्रैकार्थ्य तत्राऽनेन समासविधिः । विस्पष्टं पटुः विस्पष्टपटुः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? मैत्रः पचति । बहुलग्रहणात्कचिदनामापि समस्यते । भात्यर्कोऽत्रेति भात्यर्क नभः । कचिदनान्नापि । अनुव्यचलत् । अत्र अनु वि अग्रे अचलत् इतिस्थिते नित्यसन्धिः समासफलम् । त्यादिनोक्तत्वान्न स्यादिः । पदत्वार्थमुत्पन्नस्य सेः क्लीवत्वे लुप् ।