SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०५ ऐका ||३|२|८| ऐका मैकपद्यम् । तन्निमित्तस्य स्यादेर्लुप्स्यात् । बाहुलकात्कन्ये इवेत्यादी इवेन नित्यसमासो विभक्त्यलोपश्च । ऐकपद्यं समासफलम् । विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्वात्क्रमख्याति युगपत्सदृक् सम्पत्साकल्यान्तेऽव्ययम् ||३|१|९ ॥ विभक्तादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहैकायै सति पूर्वपदार्थऽभिधेये नित्यं समस्यते सोऽव्ययीभावसंज्ञः स्यात् । विभक्तिशब्देन विभक्त्यर्थः कारकम् । स्त्रियां गृहकार्य्यं निधेयमिति वाक्ये स्त्रियामित्यत्र सप्तमी तदर्थयोतकमधीत्यव्ययं स्वीनाम्ना समस्यते । स्त्री अधि इति स्थिते । प्रथमोक्तं प्राक् ||३|१|१४॥ समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् पूर्व निपतति । द्वन्द्वैकत्वान्यभाव इति लिङ्गानुशासनात्कीबत्वे ह्रस्वः । अधिस्त्रि इति कृते नाम्नः प्रथमेति प्रथमा । अनतो लुप् ||३|२२६॥ अकारान्तवयव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि पश्य कृतमि त्यादि । समीपे कुम्भस्य समीपे । अमव्ययीभावस्यातोऽपञ्चम्याः ||३|२|२॥ अदन्तादव्ययीभावात्परस्यादेरम् स्यात् पञ्चमीं वर्जयित्वा । उपकुम्भमस्ति पश्य कृतम् । उपकुम्भं खामी । वा तृतीयायाः ||३|२|३॥ अदन्ताव्ययीभावस्य तृतीयायाः स्थाने वाऽम् स्यात् । उपकुम्भेन कृतम् उपकुम्भं वा । सप्तम्यावा ॥३२॥४॥ अदन्ताव्ययीभावस्य सप्तम्या वा अम् स्यात् । योगविभाग उत्तरार्थः । उपकुम्भे उपकुम्भं वा निधेहि । ऋद्धनदीवंशस्य || ३|२|५॥ चं. प्र. १४
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy