________________
१०६
यस्य समृद्धिः सुशब्दादिना द्योत्यते तदन्तस्य नद्यन्तस्य वंश्यान्तस्य चाद. न्तस्याव्ययीभावस्य सप्तम्या अमादेशो भवति। मद्राणां समृद्धिः सुमद्रं वसति । विगता ऋद्धिद्धिः । यवनानामृद्ध्यभावो दुर्यवनम् । एवं दुर्भिक्षम् । मक्षिकाणामभावो निर्मक्षिकम् । अमक्षिकम् । अत्ययोऽतीतत्वम् । सतोऽतिक्रान्तिः । अतिवर्षम् । वर्षाणामतीतत्वम् । अतिहिमम् । हिमध्वंसः।असम्प्रतीति।सम्प्रति नोपयुज्यते । अतिनिद्रम् । अतिकम्बलम् । नायं निद्रायाः कम्बलस्य वा समयः। पश्चादर्थे, अनुरथं याति । रथस्य पश्चादित्यर्थः । पश्चाच्छब्दस्य नात्र समासः । भाष्ये ततः पश्चात्स्नंसते इति प्रयोगात् । तेन पश्चाद्रथमिति न स्यात् । क्रम आनुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु । ज्येष्ठानुक्रमेणेत्यर्थः । ख्यातिः प्रथा । इति भद्रबाहु । भद्रबाहुशब्दो लोके प्रकाशते इत्यर्थः । युगपदेककालार्थः। .
. अकालेऽव्ययीभावे ॥३।२।१४६॥ .. सहस्य सः स्यात् नतु काले । सचक्रम् । चक्रेणैककालं गदा धेहि । चक्राणि वा पुगपद्धेहि । सहगर्थे, सनतम् । व्रतसदृशमित्यर्थः । सख्या सदृशः ससखि । सम्पत् सिद्धिः। सब्रह्म साधूनाम् । सम्पन्नं ब्रह्मेत्यर्थः । क्षत्राणां सम्पत्तिः सक्ष. त्रम् । ऋद्धराधिक्यं समृद्धिः । सम्पत्तिरनुरूप आत्मभावः । इत्यनयोर्भेदः । साकल्यमशेषता । सत्तृणमत्ति । न किञ्चित्त्यजतीत्यर्थः । अन्तः समाप्तिः। सपिण्डैषणमधीते । पिण्डैषणापर्यन्तमधीते इत्यर्थः । समाप्तिर्विकलेऽप्यध्ययने प्रती. यते इति साकल्येऽनन्तर्भावः । पूर्वपदार्थ इत्येव । समृद्धा मद्राः सुमद्राः।
योग्यतावीप्सानतिवृत्तिसादृश्ये ॥३॥१॥४०॥
एष्वर्थेष्वव्ययं नाग्नकार्ये सति पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । रूपस्य योग्यं कुरुते इत्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थानतिवृत्तिः पदार्थानतिक्रमः । यथाशक्ति पठ । शक्तिमनतिक्रम्य पठ । नात्र विन्यासविशेष इति क्रमानेदः । सादृश्ये, सशीलमनयोः । समानं शीलमित्यर्थः। सहगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसाहश्यपरिग्रहणार्थम् ।
यथाऽथा ॥३१॥४१॥ थाप्रत्ययरहितं यथेत्यव्ययमव्युत्पन्नं नाना नित्यं समस्यते । यथारूपं चेष्टते। रूपानुरूपमित्यर्थः । यथावृद्धं त्वमचेंय । अथा इति किम् ? यथा चैत्रस्तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये निषेधार्थ वचनम् ।।
यावदियत्त्वे ॥३॥॥३१॥ यावदमत्रमतिथीन भोजय । यावदित्यव्ययमनव्ययं चेह गृह्यते ।