________________
१०७
नित्यं प्रतिनाऽल्पे ॥३॥१॥३७॥ शाकस्याल्पत्वं शाकप्रति । सूपस्य मात्रा सूपप्रति । संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥३॥१॥३८॥
__ अन्यथावृत्तिः पराजयः । एकपरि । अक्षपरि । शलाकापरि । एकेन अक्षण शलाकया वा न तथा वृत्तं यथा पूर्वं जयो भवेत्।
पर्यपावहिरच्पश्चम्या ॥३॥१॥३२॥ पर्यादीनि नामानि पञ्चम्यन्तेन समस्यन्ते । परित्रिगर्तम् । एवमपत्रिगतम् । आग्रामम् । एवं बहिनामम् । प्रागग्रामं वृष्टो मेघः ।
लक्षणेनाभिप्रत्याभिमुख्ये ॥३॥१॥३३॥ अभिप्रती समस्येते सोऽव्ययीभावः । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति।
समीपे ॥३॥१॥३५॥ अनु इत्येतनाम समीपेऽर्थे समस्यते सोऽव्ययीभावः । अनुवनस्य अनुवनमशनिर्गतः।
दैध्येऽनुः ॥३॥१३४॥ यस्य दैर्घ्यमनुना बोत्यते तेन लक्षणभूतेनानुः समस्यते । अनु गङ्गा दीर्धेत्यनुगङ्गं वाराणसी । अनुयमुनं मथुरा।।
तिष्ठदग्वित्यादयः ॥३॥१॥३६॥ निपात्या यथायोगमन्यपदार्थे पूर्वपदार्थे चाभिधेये। तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वत्सेभ्यो निवासाय जलपानार्थं वा सकलास्तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेयवमित्यादि ।
पारे मध्येऽग्रेऽन्तः षष्ठया वा ॥३॥१॥३०॥ एते षष्ठ्यन्तेन नाम्ना वा समस्यन्तेऽव्ययीभावोऽयम् । पारे गङ्गायाः पारेगङ्गम् । मध्ये गङ्गाया मध्येगङ्गम् । एकारान्तत्वं निपातनात् । पक्षे तत्पुरुषो वाक्यं च ।
वंश्येन पूर्वार्थे ॥३॥१॥२९॥ वंशो द्विधा । विद्यया जन्मना च । तत्र भवो वंश्यः। तदाचिनाना संख्यावाचि नाम समस्यते । एको मुनिव्याकरणस्यैकमुनि व्याकरणस्यास्ति । विद्याविद्यावतामभेदविवक्षया एकमुनि द्विमुनि त्रिमुनि व्याकरणम् । सप्तकाशयो वंश्या अस्य ससकाशि राज्यस्य ।