SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ૪૪૮ नदीभिर्नाग्नि ॥३३२७॥ नदीभिः संज्ञायामन्यपदार्थे नाम समस्यते सोऽव्ययीभावः । उन्मत्तगङ्गं नाम देशः । शनैर्गङ्गम् । संख्या समाहारे ॥३१॥२८॥ संख्या नदीवाचिभिः सह समस्यते समाहारे गम्ये । द्वयोर्यमुनयोः समाहारो द्वियमुनम् । त्रिगङ्गम् ।। शरदादेः ॥७॥३२९२॥ शरदाधन्तादव्ययीभावादत्स्यात् समासान्तः । शरदः समीपमुपशरदम् । प्रतिविपाशम् । जराया जरस च ॥७॥३१९३॥ उपजरसम् । प्रतिपरोऽनोरव्ययीभावात् ॥७॥३३८७॥ .. एतत्पूर्वादक्षिशब्दान्तात्प्राग्वत् । अक्षिणी प्रति प्रत्यक्षम्। अक्ष्णोः पर परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् । अवर्णेवर्णस्य ॥ अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिते परे लुक् स्यात् । परस् शब्दोऽव्ययमप्रत्यक्षार्थः । परोक्षः समय इति तु अभ्रादेराकृतिगणादप्रत्यये न स्यात् । संकटाभ्याम् ॥७३॥८६॥ प्राग्वत् । समक्षम् । कटाक्षः। अनः ॥७॥३॥८८॥ अनन्तादव्ययीभावादत् । उपराजम् । नोऽपदस्य तद्धिते ॥७॥४॥६॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यखरादेलक स्यात् । नपुंसकाद्वा ॥७॥३८९॥ अन्नन्तानपुंसकात्माग्वदा । उपचर्मम् । उपचर्म ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy