________________
१४९
गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवा
॥७३।९० ॥
अत्समासान्तः । गिरेरन्तः अन्तर्गिरम् । अन्तर्गिरि । नद्याः समीपे उपनदम् उपनदि । उपसमिधम् । उपसमित् ।
इत्यव्ययीभावः ।
श्रितादिभिः ॥३|१/६२ ॥
द्वितीयान्तं नाम श्रितादिभिः समस्यते सोऽयं समासस्तत्पुरुषः । धर्म श्रितो धर्मश्रितः । संसारमतीतः संसारातीतः । ग्रामं गमी ग्रामगमी । प्राप्तापन्नौ तयाच्च ॥ ३|१|६३ ॥
प्राप्तापन्नौ सामर्थ्यात्प्रथमान्तौ तथा द्वितीयान्तेन नाम्ना समस्येते । तत्पुरुषोऽयम् । तत्सन्नियोगेऽनयोरन्तस्याकारः स्यात् । प्राप्तजीविका । आपन्नजीविका । प्राप्तगवी । आपन्नगवी स्त्री । अकारकरणं खकार्योत्तरपदाभावात्परतः स्त्रीपुंवदित्यादिना पुंवद्भावे प्राप्ते सिद्ध्यर्थम् । पुंलिङ्गे तु प्राप्तो जीविकां प्रासजीविकः पुमान् । श्रितादिभिरितिसमासे द्वितीयान्तस्यापि प्रथमोक्तत्वेन पूर्वनिपातः । ततो जीविकाप्राप्तः । जीविकापन्न इत्यपि भवति ।
स्वयं स्वामि तेन ॥३१॥५८॥
इदमव्ययद्वयं क्तान्तेन नाम्ना प्राग्वत् । स्वयंधौती पदी । स्वयंविलीनमाज्यम् । आत्मनेत्यर्थः । सामिकृतम् । सामिभुक्तम् । अर्धमित्यर्थः । समासादेकविभक्तिस्तद्धितोत्पत्तिः । खायंधौतिः । सामिकृतस्यापत्यं सामिकृतिः । सामिकृती | सामिकृतायनिः ।
द्वितीया खट्टा क्षेपे ||३ | ११५९ ॥
द्वितीयान्तं खट्टेतिनाम क्षेपे गम्ये कान्तेन प्राग्वत् । खद्वारूढो जाल्मो भुङ्क्ते । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ।
कालः ||३|१|६०॥
कालवाचिद्वितीयान्तं कान्तेन प्राग्वत् । मासं प्रमितो मासप्रमितः प्रतिपच्चन्द्रः । मासं प्रमातुमारब्ध इत्यर्थः । अव्यास्पर्थं वचनम् ।
व्याप्तौ ||३|१|६१ ॥
व्यास या द्वितीया तदन्तं व्यापकवाचिना समस्यते स तत्पुरुषः । क्तान्तं विनाऽपि समासः । मुहूर्त सुखं मुहूर्तसुखम् ।