________________
यरलवा अन्तस्थाः ॥१॥१॥१५॥ स्पष्टम् । ताः सानुनासिका निरनुनासिकाश्च वेधा ।
अं अः क प शषसाः शिट् ॥१२॥१६॥ अनुस्वारो विसर्गो वज्राकृतिगंजकुम्भाकृतिश्च वर्णः शषसाश्च शिट्रसंज्ञाः स्युः । अकारककारपकारा उच्चारणार्थाः ।
तुल्यस्थानास्यप्रयत्नः स्वः ॥११॥१७॥ यत्र पुगलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानम्-उरकण्ठादि, आस्ये प्रयत्नः आन्तरः संरम्भः । तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञः स्यात् । तत्र स्थानानि यथा-अवर्णविसर्गकवर्गहकाराः कण्ठ्याः । सर्वमुखस्थानोऽवर्णः, हविसर्गावुरस्यौ, कवर्गों जिह्वामूल इत्यन्ये । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठ्याः। ऋवर्णटवरषा मूर्द्धन्याः। लवर्णतवर्गलसा दन्त्याः । ए ऐ (कण्ठ) तालव्यौ । ओ औ ओ(कण्ठोष्ठ्यौ । वो दन्तोष्टयः । जिह्वामूलीयो जिह्वयः। नासिक्योऽनुखारः । ङ अ ण न माः खस्थाननासिकास्थानाः ।।
अथास्यप्रयत्नः॥ स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टं करणं यरलवानाम्। ईषद्विवृतं करणं शषसहानाम् । विवृतं करणं स्वराणाम् । तत्र तावत्रयोऽकाराः । उदात्तानुदात्तस्वरितभेदात् । उच्चैरुपलभ्यमान उदात्तः। नीचैरनुदात्तः। समवृत्या खरितः । प्रयोऽपि सानुनासिकनिरनुनासिकभेदात् षोढा । मुखेन नासिकया सहोचार्यमाणः सानुनासिका, तदन्यो निरनुनासिकः । एते षडू भेदा इखस्य । एवं दीर्घप्लुतयोः । इत्यष्टादश भेदा अवर्णस्य परस्परं स्वाः । एवमिवर्णास्तावन्तः खाः। उवर्णाः खाः । ऋवर्णाः स्वाःलवर्णाः खाः । लवर्णस्य दीर्घा न सन्तीति केचित् । प्रयोगादर्शनात् । सन्ध्यक्षराणां हवा न सन्तीति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा स्वाः।ऐकारास्तालव्या अतिविवृततराः खाः। ओकारा ओष्ट्या विवृततराः खाः। औकारा ओष्ठ्या अतिविवृततराः स्वाः । वाः पञ्च पञ्च परस्परं स्वाः । यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदी मिथः खौ। रेफशषसहानां स्वतुल्यस्थानास्यप्रयत्नत्वान्न खसंज्ञा । सूत्रे आस्यग्रहणं बाह्यप्रयत्ननिषेधार्थम् । ते हि आसन्नः (७४।१२०) इत्यत्रैवोपयोगिनः । न पुनः स्वसंज्ञायाम् । के पुनस्ते?, विवारसंवारी, श्वासनादौ, घोषवदघोषवत्ता, अल्पप्राणमहाप्राणता, उदात्तोऽनुदात्तः खरितश्चेत्येकादश । तत्र बर्याणां प्रथमद्वितीयाः क - पविसर्गशषसाश्चेत्येतेषां विवारः श्वासोऽघोपश्चेति यायप्रयत्नत्रयम् । वर्गाणां तृतीयतुर्यपञ्चमान्तस्था हकारोऽनुस्खारश्चेत्येषां