________________
संवारो नादो घोषश्चेति त्रयम् । वाणां प्रथमतृतीयपश्चमा अन्तस्थाश्वाल्पप्राणा इतरे सर्वे महाप्राणाः । एषां बाह्यत्वं वर्णनिष्पत्तिकालादूचे वायुवशेनोत्पद्यमानत्वात् । स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवं सहकारिण इति तेषामान्तरत्वम् । अत्र केऽपि वर्गेष्वाद्यानां चतुण्णी पञ्चमे परे यमो नाम पूर्वसदृशो वर्णः प्रसिद्ध्यतीत्याहुः। पलिक्नीः चखखतुः अग्निः घ्नन्तीत्यादी क्रमेण कखगघेभ्यः परे तत्सहशा यमाः । तेऽपि विवारादित्रयवन्तः । स्थानग्रहणं किम् ? कचटतपानां तुल्यास्यप्रयत्नानामपि भिन्नस्थानानां खत्वं नास्ति । तेन ती तमित्यत्र धुटो धुटि खे वा (११३२४८) इति पकारस्य तकारे न लोपः। आस्यप्रयत्नग्रहणं किम् ? चवर्गयशानां तुल्यस्थानानामपि भिन्नास्यप्रयत्नानां न स्वत्वम् । तेन अरुकूश्च्योततीत्यत्र धुटो धुटि स्वे वा (११३१४८) इति शकारस्य चकारे न लोपः। तपरो वर्णस्तन्मात्रस्थ ग्राहकः । अतोति रोरु: (शश१९)।
वृद्धिरारैदौत् ॥३३॥१॥ आकार आर ऐकार औकारश्च प्रत्येकं वृद्धिसंज्ञाः स्युः ।
गुणोऽरेदोत् ॥३३॥२॥ अर एत् ओत् एते प्रत्येक गुणसंज्ञाः स्युः।
क्रियार्थों धातुः ॥३॥३॥३॥ कृतिः क्रिया प्रवृत्तिापार इति यावत् । पूर्वापरीभूता साध्यमानलक्षणा, सा एवार्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञः स्यात् ।
न प्रादिरप्रत्ययः ॥३३॥४॥ प्रादिश्चाद्यन्तर्गणः । स धातुर्धातोरवयवो न स्यात् । तं व्युदस्य ततः पर एव धातुर्वेद्यः । अप्रत्ययः-न चेत्ततः परः प्रत्यय: स्यात् ।
। चादयोऽसत्त्वे ॥॥३१॥ सत्त्वं लिङ्गसंख्यावद् द्रव्यम् , इदंतदित्यादिसर्वनामव्यपदेश्यं, विशेष्यमिति यावत् । ततोऽन्यत्र वर्तमानाश्चादयोऽव्ययसंज्ञाः स्युः।
धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्था
तिवर्जः प्रादिरुपसर्गः प्राक् च ॥३॥११॥
धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गसंज्ञः स्यात्। तस्माच धातोः प्राक प्रयुज्यते, न परेण न व्यवहितः। पूजार्थी स्वती गतार्थावधिपरी अतिक्रमार्थमति च