SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नियमान की। सुगुल्फा । असहनविद्यमानपूर्वपदादिति किम् ? सकेशा। अकेशा । विद्यमानकेशा । स्वाङ्गादिति किम् ? बहुयवा । अक्रोडादिभ्य इति किम् ? कल्याणक्रोडा। क्रोडशब्द: स्त्रीक्लीवलिङ्गः । अविकारोऽद्रवं मूर्त प्राणिस्थं वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु॥१॥ विकारः, सुशोफा । द्रवः, सुखेदा। अमूर्त, सुज्ञाना । अप्राणिस्थं, सुमुखा शाला । च्युतं च प्राणिनस्तदिति किम् ? अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् । सुकेशी । सुकेशा। रथ्या। अनाग्नि शूर्पनखी। पक्षे आप् । शूर्पनखा । चन्द्रमुखी। चन्द्रमुखा। तन्निभं च प्रतिमादिषु । सुस्तनी सुस्तना वा प्रतिमा। नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ॥२॥४॥३९॥ असहादिपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । पूर्वेण सिद्धे नियमार्थमिदम् । बहुवरेभ्यश्चेद्भवति नासिकोदराभ्यामेव नान्येभ्यः । संयोगोपान्त्याच्चेद्भवति ओष्ठादिभ्य एवेति । तेन सुजघनेत्यादि । तुङ्गनासिकी । तुङ्गनासिकेत्यादि। नखमुखादनानि ॥२॥४॥४०॥ असहादिपूर्वपदाभ्यामाभ्यां स्वाङ्गाभ्यां स्त्रियां कीर्वा स्यात् । अनाम्नि शूर्पनखी । पक्षे आप् । शूर्पनखा । चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् ? शूर्पणखा । पुच्छात् ॥२॥४॥४॥ असहादिपूर्वपदादस्मादपि डीर्वा । सुपुच्छी । सुपुच्छा। कवरमणिविषशरादेः ॥२॥४॥४२॥ नित्यं ङीः । कबरं करं कुटिलं वा पुच्छमस्या इति कबरपुच्छी। मणिः पुच्छेऽस्या इति मणिपुच्छी । विर्ष पुच्छेऽस्या इति विषपुच्छी। शरः पुच्छेऽस्या इति शरपुच्छी। पक्षाच्चोपमादेः ॥२।४।४३॥ उपमानपूर्वात्पक्षात्पुच्छाच ङीः स्यात् । उलूकस्येव पक्षावस्या इत्युलूकपक्षी शाला । उलूकपुच्छी सेना । प्राङ्मुखीत्यादि नखमुखादित्यादिना । अशिशोः ॥२॥४॥८॥ एतस्माद्वहुप्रीहे स्त्रियां ङीः स्यात् । अशिश्वी । अपुत्रा। चं. प्र. ११
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy