________________
८०
क्षत्रिया। अधवयोगेऽयं विधिः । धवयोगे तु आर्यस्य स्त्री आर्यो । क्षत्रियी। केचित्तु आर्यपदस्थाने अर्यपदं पठन्ति । अयोणी । अयों स्वामिनी । वैश्यजातिर्वा स्त्री। पुंयोगे तु अर्थी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति ब्रह्माणी । अत्र कर्मणोऽण् ।।
क्रीतात्करणादेः ॥२।४।४४॥ करणमादिरवयवो यस्य तस्मात् क्रीतान्तानाना स्त्रियां की: स्यात् । अ. श्वेन क्रीयते स्म अश्वक्रीती । करणग्रहणं किम् ? सुक्रीता । दुष्क्रीता।
क्तादल्पे ॥२॥४॥४५॥ क्तप्रत्ययान्तानाम्नः करणादेरल्पार्थे स्त्रियां डीः स्यात् । अभ्रलिप्ती द्यौः । सूपविलिप्ती स्थाली । अल्पाभ्रा । अल्पसूपेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री। अनल्पेन चन्दनेन लिप्तेत्यर्थः। यवयवनारण्यहिमादोषलिप्युरुमहत्त्वे ॥२॥४॥६५॥
यवादिश्यः क्रमादोषादौ गम्यमाने स्त्रियां डीः स्यात् तत्सन्नियोगे आन् थान्तः । दुष्टो यवो यवानी । यवनानां लिपिर्यवनानी । उरु अरण्यमरण्यानी। महद्धिमं हिमानी । लिपीति किम् ? यवनस्य भार्या यवनी। स्वाङ्गादेरकृतमितजातप्रतिपन्नाद्वहुव्रीहेः ।
॥२॥४॥४६॥ स्वाङ्गादेः कृतादिवर्जितक्तान्ताबहुव्रीहेः स्त्रियां डीः स्यात् । उरुभिन्नी । केशविलूनी । कृतादिवर्जनात् दन्तकृता । दन्तमिता । दन्तजाता।
अनाच्छादजात्यादेवा ॥२॥४॥४७॥ आच्छादवर्जिता या जातिस्तदादेः कृतादिवर्जितक्तान्ताबहुव्रीहः स्त्रियां डीवा स्यात् । शाङ्गरो जग्धोऽनया शाङ्गरजग्धी । शागरजग्धा । दधिपीती। दधिपीता । अनाच्छादेति किम् ? वस्त्रच्छन्ना । जात्यादेरिति किम् ? मासयाता। पूर्वेणापि न स्यात् । अवाङ्गादित्वात् । अकृतादेरित्येव । कुण्डकृता । असहनविद्यमानपूर्वपदात्स्वाङ्गादकोडादिभ्यः
॥२४॥३८॥ सहनविद्यमानवर्जितपूर्वपदं यत्स्वाङ्गं तदन्तात्कोडादिगणवर्जितानामोऽदन्तास्त्रियां डीर्वा स्यात् । अतिक्रान्ता केशानिति अतिकेशी । अतिकेशा। पीनस्तनी । पीनस्तना । नासिकेत्यादिसूत्रे ओष्ठादिश्य एव संयोगोपान्त्येभ्य इति