SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७९ इतोऽत्यर्थात् ॥ २|४|३२|| इकारान्तान्नाम्नः स्त्रियां ङीर्वा स्यात् त्यर्थप्रत्ययान्तं विना । रात्रिः । रात्री । भूमिः । भूमी | शकटिः । शकटी । अत्यर्थादिति किम् ? कृतिः । हृतिः । अजननिः इत्यादि । पद्धतेः ॥ २|४|३३॥ स्त्रियां ङीर्वा स्यात् । पद्धतिः । पडती । त्यर्थं वचनम् । शक्तेः शस्त्रे || २|४|३४ ॥ शक्तिशब्दाच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्तिः । शक्ती । शस्त्रे इति किम् ? शक्तिः सामर्थ्यम् । धवाद्योगादपालकान्तात् ॥२|४|५९॥ धवो भर्ता । तद्वाचिनोऽकारान्तायोगात् सम्बन्धात् स्त्रियां वर्तमानात् नाम्नो ङीः स्यात् पालकान्तवर्जम् । प्रष्टस्य भार्या प्रष्ठी । गणकी । योगादिति किम् ? देवदत्तः प्रियः । देवदत्ता भार्या | पालकान्तवर्जनात् गोपालकस्य भार्या गोपालिका भार्या । ज्येष्ठा अजादौ । सूर्य्याद्देवतायां वा ॥ २|४|६४ ॥ सूर्यशब्दात्सम्बन्धात् स्त्रियां वर्तमानात् ङीर्वा, तत् सन्नियोगे आन् चान्तः । सूर्या । सूर्याणी । देवतायामिति किम् ? सूर्यस्यादित्यस्य भार्या मानुषी सूरी | कुन्ती । वरुणेन्द्ररुद्रभवशर्वमृडादान्दाचान्तः ॥ २|४|६२॥ एम्यो धवनामभ्यस्तद्योगे स्त्रियां ङीः स्यात्, तद्भावे चानन्तोऽपि । वरुणस्य भार्या वरुणानी । एवम् इन्द्राणी । रुद्राणी । भवानी । शर्वाणी । मृडानी । मातुलाचार्योपाध्यायाद्वा || २|४|६३ ॥ एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां ङीः स्यात् तद्भावे चानन्तो बा । मातुलानी । मातुली । आचार्यानी । आचार्या । उपाध्यायानी । उपाध्यायी । या तु स्वयमेवाध्यापिका तन्त्र वा ङीः । उपाध्यायी । उपाध्याया | स्वयं व्याख्यात्री भाचार्या । आर्य्यक्षत्रियाद्वा ॥ २|४|६६॥ आभ्यां स्त्रियां ङीर्वा तद्भावे आनू च । आर्याणी । आर्या । क्षत्रियाणी ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy