________________
तिष्यपुष्ययोर्भाणि ॥२॥४९०॥ भस्य नक्षत्रस्य सम्बन्धी अण् भाण् । तस्मिन् परे तिष्यपुष्ययोर्यकारस्य लुक स्यात् । तिष्येण चन्द्रयुक्तेन युक्ता तैषी पौषी रात्रिः। भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात्पकावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्री
णिकेशपाशे ॥२॥४॥३०॥ भाजादिभ्यो दशभ्यः क्रमात्पकाद्यर्थेषु स्त्रियां डीः स्यान्नानि । भाज्यत इति भाजी पका चेत् । भाजा अन्या । गोणी आवपनं चेत् । गोणा अन्या । नागी स्थूला चेत् । नागाऽन्या । जातौ तु नागी एव तस्याः स्थौल्याभावात् । गजवाची नागशब्दः स्थूलगुणयोगादन्यत्र प्रयोगे नागी । सर्पवाची तु दै-- नागा । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । कुण्डी अमत्रं चेत् । कुण्डाऽन्या। यस्तु कुण्डोऽमृते पत्यो जारजस्तत्र जातिलक्षणो डीः स्यात् । काली कृष्णा चेत्। कालाऽन्या । कुशी आयसी चेत् । कुशाऽन्या । कामुकी रिरंसुश्चेत् । कामुका अन्या । कटी श्रोणी चेत् । कटा अन्या । कबरी केशपाशश्चेत् । कबराऽन्या । जानपदी वृत्तिश्चेत् । जानपदाऽन्या । इत्यप्यन्यः ।
नीलात्प्राण्योषध्योः ॥२।४।८७॥ नीलशब्दात्प्राणिन्योषध्यां च स्त्रियां ङी: स्यात् । नीली बडवा । नीली गौः। नीली ओषधिः । प्राण्योरोषध्योरिति किम् ? नीला शादी।
क्ताच्च नाम्नि वा ॥२॥४॥१८॥ नीलशब्दात् क्तान्ताच शब्दरूपात स्त्रियां डीवा स्यान्नानि । नीली। नीला । प्रवृद्धा चासौ विलूना च प्रवृद्धविलूनी । प्रवृद्धविलूना।
स्वरादुतो गुणादखरोः ॥२॥४॥३५॥ खरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्ताद्गुणवाचिनः खरुवर्जितानाम्नः स्त्रियां ङीर्वा स्यात् । मृद्वी। मृदुः । साध्वी । साधु: । खरादिति किम् ? पाण्डुर्भूः। उत इति किम् ? शुचिः । गुणादिति किम् ? आखुः स्त्री। अखरोरिति किम् ? खरुः स्त्री । पर्तिवरा कन्या।
नवा शोणादेः ॥२॥४॥३१॥ शोणादेर्गणात स्त्रियां ङीर्वा स्यात् । शोणी । शोणा। चण्डी। चण्डा। बही । बहुः । एवं नामाऽपि काचित् । गुणवचनातु पूर्वेणैव सिद्धिः।