________________
७७
ऊढायाम् ॥२॥४॥५१॥ पत्युः केवलात् पतिपरिणीताया डीः स्थानान्तादेशश्च । पत्नी। यजमानस्य पत्नी। वृषलस्य पत्नी।
पाणिगृहीतीति ॥२॥४॥५२॥ इतिशब्दः प्रकारार्थः । पाणिगृहीतीत्यादयो निपात्याः । पूतक्रतुवृषाकप्यमिकुसितकुसीदादै च ॥२॥४॥६॥
एभ्यो धक्वाचिभ्यस्तद्योगास्त्रियां डीः स्यात्तयोगे ऐकारश्चान्तादेशः । पूतकतोर्भार्या पूतक्रतायी । वृषाकपायी । अग्नायी । कुसितायी । कुसीदायी।
मनोरौ च वा ॥२॥४॥६॥ मनोधवयोगान्डीर्वा तत्सन्नियोगे औकार ऐकारश्चान्तादेशः । मनावी। मनायी। मनुः। श्यतैतहरितभरतरोहिताद्वर्णात्तो नश्च ॥२॥४॥३६॥
एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् तद्भावे तकारस्य नकारः । श्येनी। श्येता। एनी । एता। हरिणी । हरिता । भरणी । भरता। रोहिणी । रोहिता। लत्वे लोहिनी । लोहिता।
नः पलितासितात् ॥२॥४॥३७॥ आभ्यां ङीवा स्त्रियां तनावे तकारस्य कादेशश्च । पलिक्की । पलिता । अ. सिकी । असिता । अवदातशब्दस्य विशुद्ध्यर्थत्वादवदातेति ।
गौरादिभ्यो मुख्यानङीः ॥२॥४॥१९॥ गौरादेर्मुख्याद्गणात् त्रियां ङीः प्रत्ययः स्यात् । गौरी । शवली । कल्माषी। सारङ्गी। पिशङ्गी । नर्तकी । अनड्वाही । अनडही। पिप्पल्यादयश्च । मुख्यादिति किम् ? बहुनदा भूमिः । आकृतिगणोऽयम् ।
सूर्यागस्त्ययोरीये च ॥२॥४॥८९॥ अनयोर्यकारस्य डीप्रत्यये ईयप्रत्यये च लुक् स्यात् । सूर्यस्य भार्या मानुषी सूरी । अगस्त्यस्येयमागस्ती।
मत्स्यस्य यः ॥२।४।८७॥ अस्य यकारस्य लुक स्यात् डीप्रत्यये परे । मत्सी।