________________
ऊनः ॥२॥४७॥ ऊधन्निति कृतसमासान्तनकारस्य ग्रहणम् । तदन्तानाम्नः स्त्रियां डी: स्थात् बहुव्रीहौ । कुण्डोधी । स्त्रियामिति किम् ? कुण्डोधो धैनुकम् । संख्याव्ययादेरपि । द्वयूनी । अत्यूनी। बहुव्रीहावित्येव । ऊधोऽतिक्रान्ता अत्यूधाः।
संख्यादेर्हायनाद्वयसि ॥२॥४॥९॥ संख्यादेहायनशब्दान्तान्नानो बहुव्रीहेः स्त्रियां वयसि गम्यमाने ङी: स्यात् । द्विहायनी । चतुर्हायणी । चतुस्नेहायनस्य वयसि इति नकारस्य णत्वम् । त्रिहायणी वडवा । वयसीति किम् ? द्विहायना त्रिहायना शाला। केवलमामकभागधेयपापापरसमानार्यकृतसु
मङ्गलभेषजात् ॥२॥४॥२९॥ एभ्यः स्त्रियां डीः स्यान्नानि । केवली नाम ज्योतिः। मामकी । भागधेयी। पापी । अपरी । समानी । आर्यकृती। सुमङ्गली। भेषजी । नानीत्येव । केवला । मामकशब्दोऽअन्तस्तेन छीसिद्धोऽपि नाग्नि नियम्यते । तेन मामिका बुद्धिरित्यसंज्ञायां लोके । अत्र अलक्षणोऽपि जीर्ने ।
पतिवत्न्यन्तर्वन्यौ भार्यागर्भिण्योः ॥२॥४॥५३॥
भार्या जीवद्भर्तृका । तस्यां वाच्यायां पतिमच्छब्दान् ङीः स्यात्प्रकृतेः पतिवनादेशः । तथा गर्भिण्यां स्त्रियां वाच्यायामन्तर्वच्छब्दान् डीः प्रकृतेरन्तर्वमादेशश्च स्यात् । पतिवत्नी । अन्तर्वनी । भार्येति किम् ? पतिमती भूः। गर्भिणीति किम् ? अन्तरस्त्यस्यां शालायां पटः।
पत्युनः ॥२॥४॥४८॥ पत्यन्ताहहुव्रीहेः स्त्रियां कीर्वा स्यात् तत्सन्नियोगे इकारस्य नकारादेशश्च । दृढः पतिरस्या दृढपली दृढपतिर्वा ।
सादेः ॥२॥४॥४९॥ सपूर्वात्पतिशब्दास्त्रियां डीर्वा स्यात्प्रकृतेर्नकारान्तादेशः । पूर्वेण सिद्धे पुनर्वचन बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिग्रामपत्नी ग्रामपतिर्वा । सादेरिति किम् ? पतिरियं स्त्री ग्रामस्य ।
सपत्न्यादौ ॥२॥४॥५०॥ पतिशब्दात् स्त्रियां नित्यं डीनकारश्चान्तादेशः । समानः पतिर्यस्याः सपनी । एकपनी।