SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७५ कौरव्यमाण्डूकासुरेः ॥२४॥७०॥ एभ्यः स्त्रियां ङीः स्वाप्तत्सन्नियोगे डायन् चान्तः । कौरव्यायणी । माण्डूकायनी । आसुरायणी । वयस्यनन्ते || २|४|२१॥ 1 अनन्त्यवयोवाचिनोऽदन्तान्नाम्नः स्त्रियां ङीः स्यात् । कुमारी । किशोरी । कलभी । वधूटी । चिरण्टी । तरुणी । तलुनी । कन्या । मध्या । मुग्धा । अजादिः । द्विगोः समाहारात् ॥ २|४|२२ ॥ समाहारद्विगुसंज्ञकान्नाम्नोऽदन्तात्स्त्रियां ङीः स्यात् । त्रिलोकी । पश्चाजी । त्रिफलेत्यजादिः । त्र्यनीका सेना । परिमाणात्तद्धितलुक्यविस्ताचितकम्वल्यात् ॥२|४|२३॥ परिमाणान्ताद्विगोरदन्तात्तद्धितलुकि स्त्रियां ङीः स्यात् । द्वाभ्यामादकाभ्यां क्रीता याढकी । ज्याढकी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पश्चाश्वा । द्विशता । तद्धितलुकीति किम् ? द्विपण्या | अविस्तादिति किम् ? द्वाभ्यां बिस्ताभ्यां क्रीता द्विबिस्ता । याचिता । द्विकम्बल्या । काण्डात्प्रमाणादक्षेत्रे ॥ २|४|२४ ॥ प्रमाणवाचिकाण्डशब्दान्तादक्षेत्रविषयाद्विगोस्तद्धितलुकि सति स्त्रियां ङीः स्यात् । द्वे काण्डे आयामप्रमाणं यस्या द्विकाण्डी । त्रिकाण्डी रज्जुः । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । पुरुषाद्वा ॥ २|४|२५॥ प्रमाणवाचिपुरुषान्ताद्विगोस्तद्धितलुकि स्त्रियां ङीर्वा स्यात् । द्विपुरुषी । द्विपुरुषा परिखा । रेवत रोहिणा || २|४|२६॥ रेवत रोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां ङीः स्यात् । रेवत्यां जाता रेवती । रोहिण्यां जाता रोहिणी । अत्र जातार्थस्याणो लुकि ङीलुकि च पुनरनेम जीर्भवति । ) स्त्रियामूधसोन ॥७३॥१६९॥ स्त्रीलिङ्गे न बहुव्रीहौ इति निकृते डाङीविकल्पयोः प्राप्तयोः-
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy