________________
द्वयेषसूतपुत्रवृन्दारकस्यम् ॥२।४।१०९॥ एषामन्तस्यानित्प्रत्ययावयवेकारे आप्परे परे वेकार: स्यात् । द्विके । दूके। एषिका । एषका । नपूर्वकत्वे नेकारः। अनेषका । सूतिका । सूतका । पुत्रिका। पुत्रका । धन्दारिका । घृन्दारका । एष शब्दस्य सर्वादेरेवेच्छतीतीर्णके एषिका। एता एव एतिकाः।
इच्चापुंसोऽनिक्याप्परे ॥२।४।१०७॥ अपुल्लिङ्गार्थाच्छन्दाद्विहितस्यापः स्थाने इकारो हखश्च वा स्यात् । नकारानुबन्धवर्जितस्य प्रत्ययस्यावयवभूते ककारे आप्परे परतः । अल्पा खट्वा । ख. द्विका । खट्टका । खदाका । गङ्गिका । गङ्गका । गङ्गाका । अपुंस इति किम् ? अखट्विका । आप इत्येव । मातृका।।
अणजेयेकणूनअखटिताम् ॥२॥४॥२०॥ अणादिप्रत्ययानां योऽकारस्तदन्तान्नाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां वाच्यायां स्त्रियां वर्तमानाद की: स्यात् । औपगवी । तापसी । कुम्भकारी । ऐन्द्री। औत्सी। वैदी। छात्री । चौरी । सौपर्णेयी । शैलेयी । एय ऋ प्रत्ययः । इकण् । आक्षिकी । लावणिकी । नत्रि । स्त्रैणी । लत्रि । पौली। टिति । जानुदनी । जानुदयसी । जानुमात्री । पञ्चतयी । शाक्तीकी । यस्तनी । भिक्षाचरी । सहचरी । कुरुचरी।
अस्य उयां लुक्॥२॥४॥८६॥ की प्रत्यये परे पूर्वस्याकारस्य लुक् स्यात् । प्रत्ययसाहचर्यादागमस्य टितो डीन स्यात् । पठिता विद्या।।
यत्रो डायन् च वा ॥२॥४॥६७॥ यन्प्रत्ययान्तात् स्त्रियां ङी: स्यात्, तत्सन्नियोगे डायन् चान्तो वा स्यात् ।
व्यञ्जनात्तद्धितस्य ॥२।४।८८॥ व्यञ्जनात्परस्य तद्धितयकारस्य लुक् स्यात् ज्याम् । गर्गस्थापत्यं पौत्रादि स्त्री गार्गी । पक्षे । गाायणी । द्वीपे भवा द्वैप्या। अन द्वीपादनुसमुद्र ण्य इति न की। देवस्यापत्यं स्त्री दैवी । अत्र देवाद्यञ्चेत्यस्य प्रग्जितीयार्थत्वान्न डीः इति केचित् ।
लोहितादिशकलान्तात् ॥२।४।६८॥ लोहितादिभ्यः शकलान्तेभ्यो यमन्तेभ्यो डीः स्यास्त्रियाम्, तत्सनियोगे सायन् चान्तः। लौहित्यायनी । कात्यायनी । शाकल्यायनी।