________________
अस्यायत्तत्क्षिपकादीनाम् ॥२॥४॥११॥ यत्तक्षिपकादिवर्जितस्य नानो योऽकारस्तस्यानित्प्रत्ययावयवे ककारे परे इकारः स्यात् । कीदृशे ककारे? आप्परे । आबेव परो यस्मान्न विभक्तिः स आप्परस्तादृशे । सर्विका । कारिका । पाठिका । पाचिका । मद्रिका । भद्रिका । अस्येति किम्? नौका । गोका । अनिकीत्येव । जीवका । आशिष्यकन् । इचा पुंसोऽनित्क्याप्परे इत्यनुवृत्तेरनित इति पर्युदासेन प्रत्ययग्रहणेन अत्र न भवति। शक्नोतीति शका । आप्परे इत्येव । कारकः । आबेव परो यस्मादिति नियमः किम् ? बहुपरिव्राजका मथुरा । बहुमद्रका सेना। विभत्तयन्तादयमाप । तेनेकारनिषेधः । यदादिवर्जनं किम् ? यका । सका । क्षिपका । ध्रुवका । अस्येत्यत्राकार एव व्याख्यानात् । तेन राकेत्यत्र नेकारः । नरिका । मामिका । अनयोरिकारो निपात्यते । नरान् कायतीति नरिका। आतो डोऽहावामः () इति डा। ममेयं मामिका । अत्र तद्धितप्रत्ययः मामकी इत्येव केवल मामक इति सूत्रेण ना ॥
स्वज्ञाजभस्त्राधातुत्ययकात् ॥२।४।१०८॥
वज्ञाजभस्त्रेभ्यस्तथाऽधातोरत्यप्रत्ययस्य च याववयवी यकारककारी ताभ्यां च परस्याऽऽपः स्थानेऽनित्प्रत्ययावयवे ककारे आप्परे इकारो वा स्यात् । कुत्सिता वा ज्ञातिः खिका । स्खका । अस्वका । अस्विका । असोदित्वान्नात्राक । किन्तु कप् । एवं ज्ञका । ज्ञिका । अज्ञका । अज्ञिका । अजका । अजिका । एवम् अभस्त्रका । अभस्त्रिका । यकारात्परस्य वा । इभ्यका । इन्यिका । आर्यका । आर्यिका । ककारात्परस्य वा । चटकका । चटकिका । धातुत्यवर्जनं किम् ? सुनयिका । अशोकिका । दाक्षिणात्यिका । इहत्यिका । उपत्यका । अधित्यका । अत्र क्षिपकादित्वान्नेकारः । अक् प्रत्यये सांकाश्ये भवा साङ्काश्यिका । यकेति किम् ? अश्विका । शुभं यातीति शुभंयाः । साऽज्ञाता शुभंयिका। उत्तरपदलोपे नेकारो वाच्यः । देवदत्तिका । देवका। तारकावर्णकाऽष्टका ज्योतिस्तान्तवपितृदेवसे
॥२।४।१०८॥ तारकादयः शब्दाः क्रमेण ज्योतिरादिष्वर्थेष्वकारस्याऽकृतेकारा निपात्यन्ते । तरतर्णके, तारका नक्षत्रं कनीनिका च । अन्यत्र तारिका । वर्णका प्रावरणविशेषः । अन्यत्र वर्णिका । अष्टका पितृदेवत्ये कर्मणि। अन्यत्राष्टिका खारी।
वौ वर्तिका ॥२॥४॥११०॥ पक्षिणि वाच्ये वर्तिकाशब्द इकारो वा । वर्तकाऽपि ।
चं. प्र. १०