________________
७०
अधुना । इदानीम् । सद्यः । अद्य । परेद्यवि । पूर्वेद्युः । उभयद्युः । परुत् । परारि । ऐषमः । कर्हि । तथा । कथम् । पञ्चधा । एकधा । ऐकध्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः । द्विः । सकृत् । बहुधा । प्राक् । दक्षिणात् । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । डाजन्तम् । सादन्तम् । वान्तं शब्दरूपं बहुशः । अधणिति किम् ? पधि द्वैधानि । संशयत्रैधानि । आशस इति किम् ? पचतिरूपम् ।
विभक्तिथमन्ततसाद्याभाः ॥ १|१|३३॥
।
विभक्त्यन्तप्रतिरूपकास्थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाञ्च ये शब्दास्ते सर्वेऽव्ययानि स्युः । अहंयुः । शुभंयुः । अस्तिक्षीरा गौः । कुतः । यथाकथम् इति । अहम् । शुभम् । कृतम् । पर्याप्तम् । येन । तेन । चिरेण । अन्तरेण । ते । मे । अह्नाय । चिराय । चिरस्य । अकस्मात् । अन्योन्यस्य । एकपदे । अग्रे । प्राह्णे । वेलायाम् । मात्रायाम् । एते स्याद्यन्तप्रतिरूपाः । अस्ति । नास्ति । असि । अस्मि । विद्यते । भवति । एहि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु | पूर्यते । स्यात् । आस । आह । वर्तते । याति । नियाति । पश्य । पश्यत । आतङ्क । आदङ्क । इत्यादयस्त्याद्यन्तप्रतिरूपकाः ।
वत्तस्याम् ॥ १।१३४॥
वत् तसि आम् एतत्प्रत्ययान्तः शब्दोऽव्ययं स्यात् । मुनेरहे मुनिवत् वृतम् | क्षत्रिया इव क्षत्रियवत् विप्रा युध्यन्ते । पीलुम्लेनेकदिक् पीलुमूलतो विद्योतते विद्युत् । उरसा एकदिक उरस्तः । आम् तद्धित एव । उच्चैस्तराङ्गायति । क्त्वा तुमम् ॥ १|१|३५ ॥
क्त्वा तुम् अम् एतत्प्रत्ययान्तः शब्दोऽव्ययं स्यात् । कृत्वा । धृत्वा । प्रणम्य । निपत्य | कर्तुम् । स्तोतुम् । स्मारम् स्मारम् । दायं दायम् । कचिद् जीवसे पिबध्यै इत्यादि । उदेतोः । विसृपः । इति च्छन्दसि तोसुन कसुन्नन्तोऽव्ययसंज्ञः स्यात् । गतिः ॥ १|१| ३६॥
गतिसंज्ञाः शब्दा अपि अव्ययसंज्ञाः स्युः । अदः कृत्य । अत्राऽव्ययत्वाद्विसर्ग एव नत्वतः कुकमित्यादिना सकारः ।
अव्ययस्य ॥३॥२७॥
अव्ययसम्बन्धिनः स्यादेर्लुप् स्यात् । तत्सम्बन्धात् स्वर अतिक्रान्तोऽतिखर्, तस्यातिखरः, अत्युच्चैसः । यद्यप्यव्यये तदन्तविधिरस्ति तथापि न गौणे । सदृशमित्यादिश्रुतिर्लिङ्गकारक सङ्ख्या भावपरा ।
वा वाप्योस्तनिकीधामहोपी ||३|२| १५६॥
अव इत्युपसर्गस्य तनि क्रीणात्योः परयोः । अप्युपसर्गस्य धाग नहोः पर