SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६९ अमूनि २ । खनडत - द् । खनडुही । वाः शेषे । स्वनांहि गृहाणि । काष्ठतटू-डू । काष्ठतक्षी । काष्टतङ्क्षि । घुटां प्रागिति बहुवचनात् धुद्रयपूर्वोऽपि नोऽन्तः । काष्ठतभ्याम् इत्यादि । इति व्यञ्जनान्ता नपुंसकलिङ्गाः । अथाऽव्ययप्रकरणम् । श्रेयानयं सविनयं नयनिश्चितोर्हन् संमानमानयतु मा नियतप्रसादैः । यत्सन्निधानविधिना सकलार्थसिद्धिः सञ्जायते जयमयी हि मयीहितार्थे ||१|| अथाऽव्ययानि । नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ १ ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ २ ॥ स्वरादयोऽव्ययम् ॥ १|१|३० ॥ 1 स्वर् । अन्तर् । सनुतर् । पुनर् । प्रातर् । सायम् । नक्तम् । अस्तम् । दिवा । दोषा । यस् | श्वस् । उच्चैस् । नीचैस् । शनैस् । अवश्यम् । ऋधक् । ऋते । आरात् । पृथक्। रात्रौ । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । समया । निकषा । अवस् । स्वयम् । वृथा । नञ् । हेतौ । अद्धा । इद्धा । सामि । चत् । सदा । सना । उपधा । सनत् । सनात् । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना | स्वस्ति । स्वाहा । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । मिथ्या । मृषा । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रबाहु | प्रबाहुकम् । प्रबाहुक | आर्य्यहलम् । अभीक्ष्णम् । साकम् । सार्द्धम् । नमस् । हिरुक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतार् । मा । माङ् । इत्यादि । आकृतिगणोऽयं स्वरादिः । चादयोऽसत्त्वे । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण । कच्चित् । यत्र । नह । हन्त । नहि । सकिम् । किम् | आकिम् । नकिम् । अकिम् । नञ् । यावत् । तावत् । वै । तुवै । न्वै । नुवै । रैवै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वषट् । तुम् । तथाहि । खलु । किल | अथ । सुष्ठु । म । आदह । उपसर्गप्रतिरूपाः । अवदन्तमित्यादयः । विभक्तिप्रतिरूपाः । अहंयुः । अस्तिक्षीरा इत्यादयः । खरप्रतिरूपाः । अ । आ । इ । ई । उ । ऊ । ऋ । ऋ । लृ । लु । ए । ऐ । ओ । औ । पशु | शुकम् । यथा | कथा | याट् । पाटू । अङ्ग । है । है । भो । अये । अयि । एकपदे । युत् । आत् । अयं चादिरप्याकृतिगणः । 1 अधणतस्वाद्याशसः ॥ १।१।३२॥ धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययं स्यात् । देवा अर्जुनतोऽभवन् । अर्जुनपक्षे इत्यर्थः । ततः । तत्र । इह । क । कदा । एतर्हि ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy