SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६८ तिदीर्घ महान्ति २। यकृत्शकृतोःशसादौ यकन्, शकन् वा। यकृन्ति । यकानि । यका । यकृता । शकृन्ति । शकानि । शक्का । शकृता इत्यादि । ददत्। ददती। शौ वा ॥४॥२९५॥ द्वयुक्तजक्षपश्चतः परस्यान्तो नकारस्य शि प्रत्यये परे वा लुक् स्यात् । ददन्ति । ददति । अनतो लुबिति लुविधानात् न त्यदायत्वम् । त्यत् । त्ये । त्यानि । तत् । ते । तानि २ । यत् । ये। यानि २ । एतत् । एते । एतानि २। अन्वादेशे एन । एने । एनानि । शेष पुंवत् । बेभिद्यतेः किपि बेभिः -त् । बेभिदी। बेभिदि । शौ अल्लोपस्य स्थानिवत्वात् अधुडन्तस्वान्न नोऽन्तः । स्वरा. च्छावित्यपि न । स्वविधौ स्थानिवत्वाभावात् । एवं चेच्छिद् । चेच्छिदी। चेच्छिदि । कुलानि । अहन्शन्दे सौ परेऽनतो लुविति सेलुपि रो लुप्यरीति नकारस्य रुत्वे अहः । ईडौ वेति विकल्पादकारलुकि अही। अहनी । अहानि २॥ अहा । अह इति नकारस्य रुत्वे घोषवतीत्युत्वे अहोभ्याम् । अहोभिः । अहि । अहनि । हे अहः । ब्रह्म । ब्रह्मणी । ब्रह्माणि २॥ कीबे वा ॥२॥१९३॥ आमच्यनान्नो नकारस्य क्लीचे लुग्वा भवति । हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । खप् । स्वपी। नि वा ॥१॥४॥८९॥ अपः परस्य नागमे सति पूर्वखरस्य घुटि वा दीर्घः । स्वाम्पि । स्वम्पि। अत्याम्पि । अत्यपि । बह्वाम्पि । बहम्पि । इदम् । इमे । इमानि । २। किम् । के । कानि । २। रेफान्तो वार शब्दः । वाः । वारी । वारि । वारा। वाोम् । वाएं । हे वाः । चतुरः शौ । चत्वारि २ । विमला द्यौर्यत्र तत् विमला अहः । विमलदिवी । अन्तर्वर्तिन्या विभक्त्या पूर्वपदस्येवोत्तरपदसंज्ञाप्राप्तौ वृत्यन्तोऽसषे ॥१॥१॥२५॥ वृत्तिः परार्थाभिधायी पदसमुदायः समासादिः, तस्या अन्तः पदं न स्यात् । इति पदत्वनिषेधात् उः पदान्तेऽनूत् इति वस्योत्वं न । विमलदिवि अहानि । सस्य तु षत्वे पदसंज्ञैव । दधिसेक । अत्र पदसंज्ञायां पदादित्वान्नाम्यन्तस्थेत्यादिना न षकारः। पदमध्यस्थस्य सकारस्य षत्वमिति धनुष्शब्दे धनुः । धनुषी । धनूंषि । धनुर्ध्याम् । एवं चक्षुः । चक्षुषी। चढूंषि । हविः । हविषी। हवींषि २। पिपठिषतेः किप् । भ्वादेनोमिन इति दीर्घः। पिपठीः। पिपठिषी। पिपठिषि २ । नात्र नोऽन्तो बेभिद्वत् । पिपठीभ्याम् । पयः । पयसी । पयांसि । पयसा । पयोभ्याम् । एवं तपस् वचस् प्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि कुलानि । अदः । अनतो लप् । द्विवचने अमे इति जाते मादुवर्णोऽनु । अम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy