________________
सेडौं । दकारस्य सकारः। असौ । द्विवचनादौ अत्वे, मत्वे, आपि, विभक्तिकार्यानन्तरं मादुवर्णोनु । अम् । अमूः । अमूम् । अमू । अमूः । अमुया। अमूभ्याम् । अमूभिः । अमुष्य । अमुष्याः २ । अमुयोः । अमूषाम् । अमुष्याम् । अमूषु । हान्त उपानशब्दः।
नहाहोर्धतौ ॥२॥१॥८५॥ नहेबूंस्थानस्याहश्च धातोः सम्बन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथाक्रमं धकारतकारावादेशौ स्याताम् । उपानत्-दू । उपानही । उपानहः । उपानभ्याम् । उपानत्सु । हे उपानत्-दू।
इति व्यञ्जनान्ताः स्त्रीलिङ्गाः।
अथ व्यञ्जनान्ता नपुंसकलिङ्गाः। श्रीवत्सशालीसुमनोधिराजानुजन्मबुद्ध्या कृतभूरिभक्तिः। नन्दानुरागोऽनवमोऽथ लक्ष्म्यान्वितं जनत्वे दशमत्वमापत् ॥ १॥
चकारान्तः प्रत्यशब्दः। चजः कगमिति कल्वे प्रत्यक्-ग् । औकारेऽघुट्वरत्वात् अच्च प्राग्दीर्घश्चेति । प्रतीची। प्रत्यञ्चि २। सम्यक-ग् । समीची। सम्यश्चि २। शेषं पुंचत् । गोच्शब्दे गत्यर्थत्वे क्लीबे सौ परे गोऽच् स् इतिस्थिते, अनतो लुप् । अच् इति विश्लेषे स्वरे वाऽनक्षे इत्यवादेशे दीर्घत्वे चजः कगम् । विरामे वा । गवाक्-ग् । वात्यसन्धिरित्यसन्धी गो अक्-म् । एदोतः पदान्तेऽस्यलुगित्यकारलोपे गोक- एवं षड़ रूपाणि । गती अञ्चोऽनायामिति नलोपाभावे गोऽन् च् शब्दे सेलपि अन् च् इति विश्लेषे गो अन् च् इति कृते पदस्येति च्लोपे युजञ्चक्रुञ्चो नो ङ इति नकारस्यापि डकारे ओकारस्यावादेशे गवाडू । गो अडू । अकारलुकि गोडू । एवं नव रूपाणि । तत्र पुनः कगडां द्वित्वेऽष्टादश रूपाणि सौ। औकारे औरीरितीकारे कृते अच प्रागित्यनेन च शेषे गत्यर्थे गोची इत्येकमेव रूपम् । पूजार्थे गवाञ्ची। गो अञ्ची । गोऽची। एषु अदीर्घादिति जद्वित्वे षडू रूपाणि । अन्न अ इ उ वर्णस्यान्तेऽनुनासिक इति नानुनासिकः। द्वित्वस्येदादेनिषेधात् । एवं सप्त रूपाणि प्रथमाद्विवचने। जसि घुटा प्रागिति नोऽन्तः प्राप्तः । नपुंसकस्य शिरितीकारे प्रागवदवादेशे गवाश्चि । असन्धौ गो अश्चि । अतो लुकि गोऽश्चि । एतद्रूपत्रयं पूजार्थेऽपि समानम् । तत्र धातो कारस्यालोपात्स्वरात्परस्य घुटोऽभावान्न नोऽन्तः । ततोऽदीर्घादिति - द्विस्वे षड् रूपाणि । तत्राप्यनुनासिकत्वे द्वादश रूपाणि । एवं रूपसमुच्चये सप्तत्रिंशत्प्रथमायां रूपाणि । तथैव द्वितीयायामपि । तृतीयैकवचने गत्यर्थे गोचा । पूजार्थे गवाचा । गो अश्चा । गोश्वा । इति रूपत्रये द्वित्वे षट् । एषु सप्तसु अनुनासिकत्वे चतुर्दश रूपाणि । एवं उसि ङस् ओस् आम् ङि प्रत्ययपरत्वे चतुदेशानां षनिर्गुणने चतुरशीति रूपाणि । भ्यामि गत्यर्थे गवागभ्याम् । गोअग.