________________
६४
असुको वाऽकि ॥२॥१॥४४॥ त्यदां सौ परेऽदसोऽकि सति असुक इत्यादेशो वा निपात्यते । असुकः । हे असुक । पक्षे प्रागुक्तम् । द्विवचनादौ आदेर इति अवे लुकि औकारे च कृते अदौ इति जाते।
मोऽवर्णस्य ॥२१॥४५॥ अवर्णान्तस्य त्यदादेरदसो दकारस्य मकारः स्यात् ।
मादुवाँऽनु ॥२॥१॥४७॥ अदसो मकारात्परस्य वर्णमात्रस्योवर्णः स्यात्, अनु कार्यान्तरस्य पश्वात् । यथासन्नं हि एकमात्रिकस्यैकमात्रिकः । द्विमात्रस्य द्विमात्रः । लुतस्य प्लुतः। अम् । सर्वोदित्वाज्जस इः।।
बहुष्वेरीः ॥२॥१॥४९॥ बहुष्वर्थेषु वर्तमानस्यादसो मकारात्परस्यैकारस्येकारः स्यात् । अमी। अमुम् । अमू । अमून् । अम टा इति स्थिते,
प्रागिनात् ॥२॥१॥४८॥ __ अदसो मात्परस्य वर्णमात्रस्येनादेशात् प्रागुवर्णः स्यात् । अमुना । अमूभ्याम् । अमीभिः । अकि तु अमुकः । अमुष्मै । अमूभ्याम् । अमीभ्यः। अमुमात् । अमुष्य । अभुयोः । अमीषाम् । अमुषिमन् । अमीषु । हान्ताः। अनड्डहशब्दे वाः शेषे इति अनडू वाह् इति जाते,
अनडुहः सौ ॥१४॥७२॥ अनडहो धुडन्तस्य तदतत्सम्बन्धिनि सौ परे धुटः प्राक् नोऽन्तः स्यात् । पदस्थति हकारलोपे लोपस्याऽसत्त्वानकारलोपो न । अनड्वान् । अनड्डाहौ । अनडाहः । हे अनइन् । अनड्डाहम् । स्रंसध्वंस इत्यादिना दकारत्वे अनडुभ्याम् । अनडुत्सु।
होधुट्पदान्ते ॥२॥११८२॥ हकारस्य धुटि प्रत्यये परे पदान्ते च ढकारः स्यात् । लिट् । लि । लिहौ । लिहः। लिहम् । लिहो । लिहः । लिहा । लिड्भ्याम् । लिट्सु । लित्सु । हे लिट् । हे लिड् । एवं पर्णानि गृहतीति पर्णघुट् प्रमुखाः।
. भ्वादेर्दादेषः॥२१।८३॥ भ्वादेर्धातोर्यो दादिरषयवस्तस्य यो हकारस्तस्य धुटि प्रत्यये परे पदान्ते च धा स्यात् । गडदबादेरिति धकारे गोधुक् । गोधुग । गोदुहौ । गोदुहः । गोधु