________________
६३ शब्दे ऋदुदित इति नागमे न्समहतोरिति दीर्घत्वे पदस्येति संयोगान्तलोपे वि. द्वान् । विद्वांसौ । विद्वांसः। हे विद्वन् ।
कसउष्मतौ च ॥२।१।१०५॥ णिक्यधुड्वर्जिते यखरादौ मतौ च प्रत्यये परे कस उष् स्यात् । विदुषः । विदुषा।
संसध्वंसकस्सनडुहो दः ॥२।१६८॥ लंसध्वंसोः कस्प्रत्ययान्तस्य सकारान्तस्यानडशब्दस्य च योऽन्तस्तस्य पदान्ते दुकारः स्यात् । विद्वद्भ्याम् । विद्वत्सु । सेदिवान् । सेदिवासी । सेदिवांसः। निमित्ताभावे नैमित्तिकस्याप्यभाव इति इद् निवृत्तिः । सेदुषः । सेदुषा । सेदिवद्भ्याम् । न्समहतोरित्यत्र महच्छब्दसाहचर्याच्छुद्धधातोः किबन्तस्य न दीर्घः। सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वदूभ्याम् । एवं सत् ।
पुंसोः पुमन्स् ॥१४॥७३॥ पुम्सइत्येतस्योदितस्तदतत्सम्बन्धिनि घुटि परे पुमनस इत्यादेशः स्यात् । पुमान् । पुमांसी । पुमांसः। हे पुमन् । पुंसः । पदस्येति सलुकि पुम्भ्याम् । पुम्भिः । पुंसि । पुंसु । नात्र षत्वम् । मकारस्यानुखारात् । उकारानुबन्धः श्रेयसू. शब्दः । ऋदुदित इति नागमे न्समहतोरितिदीर्घ च श्रेयान् । शिड्ढेऽनुखारः। श्रेयांसौ । श्रेयांसः । हे श्रेयन् । श्रेयोभ्याम् । श्रेयासु। ऋदुशनस्पुरुदंसोज्नेहसश्च सेहः॥ उशना । उशनसौ । उशनसः।
वोशनसोनश्चामन्ये सौ ॥१॥४॥८॥ आमच्येऽर्थे वर्तमानस्योशनसः सौ परे नकारः पक्षे लुक च वा स्यात् । हे उशनन् । हे उशन । हे उशनः । उशनोभ्याम् । उशनः सु । एवम् अनेहा। अनेहसौ । अनेहसः। हे अनेहः । पुरुदंसा । पुरुदंससौ । पुरुदंससः । पुरुदंसो. भ्याम् । वेधाः । वेधसौ । वेधसः। हे वेधः । अभ्वादेरित्युक्तेन दीर्घः। सुष्टु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं असते पिण्डग्रः। पिण्डग्रसौ । पिण्डग्रसः।
अदसो दः सेस्तु डौः ॥२॥१॥४३॥ त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् सेस्तु डौः स्यात् । असौ । अकि च असकौ । हे असौ । हे असको विद्वन् । त्यदामिति सम्बन्धविज्ञानात् अत्यदाः इत्यत्र न डौः। स्त्रियामपि असौ । असको स्त्री। हे असौ। हे असको नि । अत्र त्यदादीनां सम्बोधनाभाव इति प्रायिकम् । तेन हे एक त्वम् । हे द्वौ युवाम् । हे अनेके यूयम् पठतेत्यादी न कोऽप्यनन्वयः।