________________
पदान्ते ॥२॥१॥६४॥ पदान्ते वर्तमानयोः भ्वादिसम्बन्धिनोरेफवकारयोः परयोस्तस्यैव भ्वादे - मिनो दीर्घो भवति । सजूद। सजुषौ । सजुषः । सताम् । साषु । सजूष्षु । हे सजूः । पिपठिषतीति किपि, अल्लोपे पिपठिष स इति स्थिते,
णषमसत्परे स्यादिविधौ च ॥२॥१६०॥ दुहाष्टाध्यायीसूत्रे इतः सूत्रादारभ्य यत्परं काय तत्र णत्वं षत्वं चासत असिद्धं द्रष्टव्यम् । णत्वषत्वयोरपि मध्ये षत्वे विधेये णत्वमसिद्धं ज्ञेयम् । तथा पूर्वस्मिश्च स्यादिविधौ स्याघधिकारविधौ णत्वं षत्वं चासत् । णषशास्त्रं वाऽसत् स्यात् । अत्र पिपठिषशब्दे षस्वमसत्किन्तु सकार एव । तेन सोरुरिति रुत्वम् । अत्र णत्वस्यासस्वात् अनोऽस्येत्यकारलोपः स्यादिविधौ च । अर्यम्णः । अर्वाणौ। सपीषि । अत्र णत्वषत्वयोरसत्वादुपान्त्यदीर्घत्वं सिद्धम् । पिपठी। पिपठिषी। पिपठिषः। पिपठीभ्याम् । नाम्यन्तस्थेतिसूत्रे शिडूनान्तरेऽपीतिकथनात् पिपठी: सु इतिस्थिते सु इत्यस्य षत्वे पिपठीःषु । शषसे शषसं वा। पिपठीषु । धृष्णोतीति दधृषशब्दे गत्वे दधृक् । दधृग । धृषौ । दधृषः । दधृग्भ्याम् । रत्नमुष्शब्दे धुटस्तृतीय इति डत्वे रत्नमुटु रत्नमुड् । रत्नमुषो । रनमुषः। रत्नमुभ्याम् । षष्शब्दो बहुवचनान्तः । षट् । षडू । षनिः । षड्भ्यः २। संख्यानां वर्णामिति नामादेशेऽनाम्नगरीनवतेरितिपयुदासाश्रयणावर्गत्वम् । प्रत्ययत्वान्नित्यं णत्वम् । षण्णाम् । षट्सु षड्त् । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः २। प्रियषषाम् । चिकीर्षशब्दे रात्स । चिकी। चिकीषौं । अरोः सुपि र इति न षः।
नरात्स्वरे ॥१॥३॥३७॥ रेफात्परस्य शिटो द्वित्वं न स्यात्वरे परे । चिकीर्षु । दोषशब्देऽपि षत्वस्यासत्वात्सोरुरिति रुत्वम् । विसर्गः । दोः । दोषौ । दोषः । दन्तपदेत्यादिना दोषन्शसादौ वा। दोषणः । दोषः । दोष्णा । दोषा। दोःषु । दोष्षु । दोषसु । यियक्षतीति किपि अल्लोपे यियक्षस् इति स्थिते दीर्घङयाविति सेलकि षस्वस्यासत्वात् पदस्येति संयोगान्तस्य सकारस्य लुकि यजमृजेति षत्वे धुटस्तृतीय इति तृतीयत्वे षस्य डखे विरामे वा पियट् । यियड् । यियक्षौ । संयोगस्यादौ स्कोरिति कलोपे तक्षशब्दे तट् । तड् । तक्षौ । तक्षः। गोरट् । गोरडू । गोरक्षौ । गोरक्षः। संयोगान्तलोपे तु तक । तग । गोरक । गोरग । पिपक्षशब्दे कत्वासवात्संयोगान्तस्य लोपः। पिपक् । पिपम् । एवं वचधातोर्विवक् । विवम् । दहधातोधिक । पिस गतौ । सुष्ठ पेसतीति सुपीः । सुपिसौ सुपिसः । सुपीाम् । सुपीःषु । सुपीषु । एवं सुतूः। तुस खण्डने । सुतुसौ । सुतुसौ । विद्वस