________________
वाः शेषे ॥१॥४॥८२॥ शेषे घुटि परेऽनडुच्चतुरोरुकारस्य वाः स्यात् । चत्वारः । चतुरः । चतुर्भिः। चतुभ्यः २। चतुपर्णाम् । चतुषु । अनारोः सुपि र इति वक्ष्यमाणसूत्रेण रस्य रत्वं, न विसर्गः । प्रियचत्वाः । प्रियचत्वारौ।
उतोऽनडुच्चतुरो वः ॥१॥४॥८१॥ सम्बोधने सौ । हे प्रियचत्वः ।
मोनो म्वोश्च ॥२॥१६७॥ ___ मकारान्तस्य भ्वादेरन्त्यस्य पदान्ते मकारवकारयोश्च परयोनकारादेशो भवति स चासन् परे । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि । एवं प्रतान् । प्रदान् । परिक्लान् । प्रशान्भ्यामित्यत्र नत्वस्यासिद्धत्वाबलोपाभावः । म्वोः। जगन्मि । जंगन्यः । म्बोश्चेति किम् ? प्रशामौ । म इति किम् ? छित् । वकारान्तः प्रियदिवशब्दः।
दिव औः सौ ॥२॥११११७॥ दिवोऽन्तस्य सौ परे औः स्यात् । प्रियद्यौः । प्रियदिवौ । प्रियदिवः।प्रिय. दिवम् । हे प्रियद्यौः।
उः पदान्तेऽनूत् ॥२।१।११८॥ पदान्ते दिवोन्तस्य उः स्यात्, स चानूत् स उकारो दीर्थो न स्यात् । प्रियगुभ्याम् । प्रियाभिः । प्रियद्युषु । अद्यौद्यौर्भवतीति गुभवतीत्यत्र दीर्घश्वियङित्यादिना न दीर्घः । शान्तो विशशब्दः । तस्य यजमृजेत्यादिना षत्वे विद। विडू । विशौ । विशः । विड्भ्याम् । विट्सु । विड्त्सु । ऋत्विदिशूदृशूस्पृशस्रज्दधृषुष्णिहो गः ॥२॥१॥६९॥
एषां पदान्ते वर्तमानानां गोऽन्तादेशः स्यात् । तादृक् । तादम् । तादृशौ । तादृशः । ताहरभ्याम् । तादृक्षु । एवं सदृश, मुदिश, घृतस्पृश प्रमुखाः ।
नशो वा ॥२॥१७॥ नशः पदान्ते गोऽन्तादेशो वा भवति । जीवस्य नशनं जीवनक् । जीव. नम् । जीवनट् । जीवन । जीवनरभ्याम् । जीवनभ्याम् । पदान्त इत्येव । जीव. नशौ।
सजुषः ॥२॥१॥७३॥ सजुषो रुः स्यात्पदान्ते।