________________
६०
इदमः ॥२|१|३४॥
त्यां सम्बन्धिन इदमो द्वितीयादौस्वन्वादेशे एनद् भवति, अवृत्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीमः । द्विवचने आद्वेर इति मस्यात्वे,
दो मः स्यादौ ॥२॥१॥३९॥
सम्बन्धिनि स्यादौ परे इदमो दकारस्य मः स्यात् । इमौ परमेमौ । परमे । इमम् । इमौ । इमान् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । अतीदमी । प्रियेदमौ ।
टौस्यनः ॥२|१|३७॥
त्यां सम्बन्धिनि दायामोसि च परेऽक वर्जितस्येदमः स्थाने अन इत्यादेशः स्यात् । अनेन । त्यां सम्बन्धविज्ञानात् अतीदमा । अनक इत्येव । इमकेन ।
अद्वयञ्जने || २|१|३५ ॥
त्यदादिसम्बन्धीदम् शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशेऽद् भवति, अष्टत्यन्ते । तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । सौ तु परत्वादयमादेशः । उत्तरत्रानगितिवचनादिह साक एव विधिः ।
अनक् || २|११३६॥
व्यञ्जनादौ स्यादौ परेऽक वर्जित इदमकारः स्यात् । अभेदनिर्देशः सर्वादेशार्थः । आद्यन्तवदेकस्मिन् ॥ एकस्मिन् क्रियमाणं कार्य्यमादाविवान्त इव स्यात् । आभ्याम् । एभिः । अकि तु
इदमसोsra || १ | ४ | ३ ॥
एतयोरक्येव अकारात्परस्य भिस ऐस् स्यात् । इमकैः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । त्यदादेः । सम्बोधनं नास्तीत्युत्सर्गः । अ अग्रे भिस् इत्यत्रैत्वं विधाय एभिः । पश्चात्परमशब्दाकारेण सन्धिकार्य्यं विधेयम् । न पुनः परम इत्यकारस्य अ इतीदमादेशाकारेण सन्धिर्विधेय इति । पूर्वोत्तरयोः पूर्व कार्ये कृते पश्चात्सन्धिकार्य्यमिति नियमात् । परमैभिः ।
किमः कस्तसादौ च ॥ २|१|४० ॥
त्यां सम्बन्धिनि स्यादौ तसादौ च प्रत्यये परे किम् शब्दस्य स्थाने क इत्यकारान्तादेशः स्यात् । कः । कौ । के । कम् । कौ । सर्वशब्दवत् । रेफान्तश्च । तुरशब्दो बहुवचनान्तः ।
1