________________
५९
पन्थानौ । पन्थानः । सूत्रत्रयेऽपि नकारान्तनिर्देशात् पन्थानमिच्छतीति क्यनि किपि पथीः । पथ्यौ । पथ्यः ।
इन्ङीखरे लुक् ॥ १॥४॥७९॥
पथ्यादीनां नान्तानां ङी प्रत्ययेऽछुट् खरादौ च स्यादौ परे इनवयवो लुक् स्यात् । पथः । पथा । अभेदनिर्देशः सर्वादेशार्थः । मन्थाः । मन्थानौ । मन्धानः । मथः । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षाणः । ऋभुक्षः । पश्ञ्चन् । सप्तन् । नवन् । वशन् एते संख्याशब्दाः । तेषु बहुवचनान्तत्वात् इतिष्ण इति जस्शसोलुपि पञ्च २ । पञ्चभिः । पञ्चभ्यः २ ।
संख्यानां र्णाम् ॥ १४॥३३॥
रेफषकारनकारान्तानां संख्याशब्दानामामः स्थाने नाम् स्यात् । दीर्घो नामीति दीर्घे नानो नोऽनहः इति न लुकि पञ्चानाम् । पञ्चसु । प्रियपश्चादयो राजवत् । एवं सप्तादयः ।
वाष्टन आ स्यादौ ॥ १|४|५२॥
अष्टन् शब्दस्य तदतत्सम्बन्धिनि स्यादौ परे वाऽऽकारान्त आदेशः स्यात् ।
अष्ट और्जस्शसोः ॥ १|४|५३॥
अष्ट इति कृतात्वस्याष्टन् शब्दस्य निर्देशः । अष्टशब्दस्य जस्शसोः स्थाने औकारादेशः स्यात् । अष्टौ २ । अष्ट २ । परमाष्टौ । अनष्टौ । अष्टभिः । अष्टाभिः । अष्टभ्यः २ । अष्टाभ्यः २ । अष्टानाम् । अष्टासु । अष्टसु । प्रियाष्टाः । प्रियाष्टा । प्रियाष्टौ । प्रियाष्टानौ । प्रियाष्टाः । प्रियाष्टानः । प्रियाष्टाम् । प्रियाष्टानम् । प्रियाष्टः । प्रियाष्ट्रः । प्रियाष्टा । प्रियाष्ट्ट्रा । प्रियाष्टाभ्याम् । प्रियाष्टभ्याम् । प्रियाष्टाभिः । प्रियाष्टभिः । इत्यादि । पान्तः खपशब्दः ।
अपः ॥ १।४।८८॥
अपः खरस्य शेषे त्रुटि दीर्घः स्यात् । स्वाप् । स्वापौ । स्वापः । हे खपू । स्वपः । अपोद्धे इति वक्ष्यमाणेनाऽदादेशे खद्भ्याम् । भान्तस्तुण्डिभूशब्दः । तत्र गडदवादेरिति डस्य ढत्वे तुण्डि । तुण्डिव । तुण्डिभौ । तुण्डिभः । गर्दभमा - चष्टे णौ किपि गर्धप् । गर्धबू । गर्धबभ्याम् । मान्त इदम् ।
I
अयमियं पुंस्त्रियोः सौ ॥ २|११३८ ॥
त्यदादिसम्बन्धिनि सौ परे पुंसि स्त्रियां चेदमः स्थाने क्रमाद् अयम् इयम् इत्यादेशौ भवतः । अयम् पुमान् । परमायम् । अनयम् । त्यदादिसम्बन्धविज्ञानात् अतीदम् पुमानित्यत्र न स्यात् । साकोप्ययमादेशः ।