SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भ्वादेर्नामिनो दी|र्वोयंजने ॥२२३३॥ भ्वादेर्धातोरवयवभूतयो रेफवकारयोस्तस्यैव भ्वादे मिनो दीर्घः स्याद्यञ्जने परे। असद्विधौ स्वरादेशस्य स्थानिवद्भावनिषेधात् प्रतिदीन्नः। प्रतिदीना। इनहन्पूषार्यम्णः शिस्योः ॥१।४।८७॥ इन्नन्तस्य हनादीनां च सम्बन्धिनः स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् । निदीर्घ इत्येव दीर्धे सिद्धे नियमार्थोऽयं योगः। दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् । हे दण्डिन् । विन्प्रत्ययान्ता अप्येवम् । तपखी । तपखिनौ । वाग्मी । वारिग्मनी । वृत्रहा । कवगैकखरवतीति णत्वे वृत्रहणौ । वृत्रहणः । शसादौ खरेऽकारलोपे हनो हो नः ॥२।१।११२॥ हन्तेह इत्येवंरूपस्य न इत्यादेशः स्यात् । वृत्रनः। छौ तु वृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ । अर्यम्णि । अर्यमणि । हे पूषन् । हे अर्यमन् । श्वन्युवन्मघोनो की स्याद्यघुट्स्वरे व उः॥२॥१॥१०६॥ एषां सस्वरो वकारो की स्याद्यघुटखरे परे उ: स्यात् । श्वा । श्वानी । श्वानः। हे श्वन् । शुनः। शुना । श्वभ्याम् । युवा । युवानौ । युवानः । हे युवन् । यूनः। मघवा । मघवानी। मघवानः। हे मघवन् । मघोनः । मघोना । मघवभ्याम् । नकारान्तनिर्देशात् मघा देवविशेषाः सन्त्यस्य मघवान् । मघवन्तो । मघवन्तः। शसि मघवतः । मघवता । मघवद्भ्याम् इत्यादि । अन वकारस्य नोकारः । अर्वनशब्दे अर्वा । अर्वाणौ। अर्वाणः। केचित्तु सिम्मुक्त्वा नकारस्थाने अर्वणस्त्रसा. बनञः इति तृ आदेशं विधाय दुदित इति नागमे अर्वन्तौ । अर्वन्तः । अर्वग्यामित्यादिरूपाण्याहुः। पथिन्मथिनृभुक्षः सौ ॥१॥४॥७६॥ एषां नकारान्तानामन्तस्य सौ परे आकारः स्यात् । इति नकारस्याकारत्वे, ए:॥१४॥७७॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आकारः स्यात् । पथा इति जाते, थोन्थ ॥१४७८॥ पथिनमधिनोर्नान्तयोस्थकारस्य घुटि परे न्थ् इत्यादेशः स्यात् । नात्र दीर्घड्यावित्यादिना से क । वर्णविधौ स्थानिवद्भावनिषेधात् । पन्थाः । हे पन्धाः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy