SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५७ सुस्थिता एते तदेनान् देवा अपि भजन्ति । टायाम् एतेन रात्रिरधीताऽथो एनेनाहरप्यधीतम् । ओसि एतयोर्ज्ञानं निर्मलमधो एनयोर्महती कीर्तिः । अवृत्यन्त इति किम् ? अथो परमैतं पश्य । अन्त इति किम् ? एतम् एतां वा श्रितक एनच्छ्रितकः । अत्रार्थात्प्रकरणाद्वाऽपेक्ष्ये निर्माते सति समासोऽन्वादेशश्च । एतम् । एतौ । एतान् । शेषं सर्ववत् । धान्तो बुधू । गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ॥२१॥७७॥ यस्य गडदबानां कोऽप्यादौ स्यात् चतुर्थश्चान्ते स्वात्तस्यैकस्वरस्य धात्ववयस्यादेश्चतुर्थ आसन्नः स्यात् । पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये परे । भुत् । भुद् | बुधौ । बुधः । मुद्भ्याम् । भुत्सु । नान्तो राजन् । तस्य निदीर्घ इति दीर्घे । 1 1 नाम्नो नोऽनहः || २|१|९१॥ पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात् । स चेदहन शब्द सम्बन्धी न स्यात् । स चासन् स्यादिविधौ । पर इति निवृत्तम् । दीर्घज्याविति सेलुकि । पश्चान्नकारस्य लुक् । राजा । अनह्न इति किम् ? अहरिति । अत्र रोलुप्यरीतिसूत्रेणाहनुशब्दस्य नस्य रेफः । अनतो लुबितिसूत्रेण लुग्विधानात् । अहोरूपमित्यत्र अह इतिसूत्रेण नकारस्य रुत्वम् । रेफत्वरुत्वयोरसत्वान्नकारलोपः प्राप्तः सोsह इति कथनात्प्रतिषिद्धः । पदान्त इत्येव । राजानौ । राजानः । राजानम् । शसादौ खरेऽनोऽस्येत्यकारलुकि तवर्गस्येत्यादिना नकारस्य त्वे जञोज्ञः । राज्ञः । राज्ञा । राजभिः । राज्ञे । राज्ञः २ । राज्ञोः २ । राज्ञाम् । ईङौ वेति राज्ञि । राजनि । राजसु । स्यादिविधौ नलोपस्यासत्वाद् भ्याम्याकारः, भिस्यैस, भ्यसि सुपि चैकार एते विधयो न स्युः । नकारस्य सत्त्वेनाकारान्ताभावात् । नामन्त्रये || २|१|९२॥ आमड येथे नाम्नो नकारस्य लुग्न स्यात् । हे राजन् । एतस्मादेव ज्ञापकात् सेलुकि स्थानिवद्भावेनाऽधातुविभक्तीत्यादिना नामसंज्ञाया न निषेधः । यज्वा । यज्वानी । न वमन्तसंयोगात् ॥२१॥१११॥ वकारान्तान्मकारान्ताच संयोगात्परस्यानोऽकारस्य लुग्न स्यात् । यज्वनः । यज्वना । आत्मानौ २ । आत्मानः । हे आत्मन् । प्रतिदिवा । प्रतिदिवानौ । चं. प्र. ८
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy