________________
५६
असदिवामत्र्यं पूर्वम् ॥ २।१।२५ ॥
युष्मदस्मद्भ्यां पूर्व सम्बोधनं पदमविद्यमानमिव स्यात् । ततो वसूनसान दयो न स्युः । श्रमणा युष्मान् रक्षतु धर्मः । ग्रामश्चैत्र ते स्वमथो इत्यादी चैत्रपदस्य सम्बोधनस्यासत्त्वेऽपि ग्रामपदापेक्षयाऽन्वादेशे नित्यं ते मयादिविधानम् । नतु पूर्वात्प्रथमान्ताद्वेति विकल्पः । इवकरणं किम् ? श्रवणं यथा स्यात् । आमिति किम् ? धर्मो वो रक्षतु ।
जसस्विशेष्यं वाऽऽमन्ये ॥ २|१|२६ ॥
युष्मदस्मद्भ्यां पूर्वसम्बोधनान्तं पदं विशेषणभूते सम्बोधनपदे परेऽसदिव वा स्यात् । पूर्वेण नित्यं प्राप्ते विकल्पः । जिनाः शरण्या युष्मान् शरणं प्रपद्ये । पक्षे जिनाः शरण्या वः शरणं प्रपद्ये । इहान्वादेशेऽपि विकल्पः । जसिति किम् ? साधो सुविहित वोऽथो शरणं प्रपद्ये । विशेष्यमिति किम् ? शरण्याः साधवो युष्मान् शरणं प्रपद्ये ।
नान्यत् ॥२॥१२७॥
युष्मदस्मद्भ्यां पूर्व जसान्तादन्यत् सम्बोधनपदं विशेष्यं सम्बोधने तद्विशेषणभूते परेऽसदिव न स्यात् । जिन भगवंस्त्वा शरणं प्रपद्ये । जिनौ भगवन्तौ वां शरणं प्रपद्ये ।
पादाद्योः
|| २|१|२८॥
नियतपरिमाणमा त्राक्षरपिण्डः पादः । तदादिस्थयोर्युष्मदस्मदोर्न वस्नसादिः स्यात् । वीरो विश्वेश्वरो नाथो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ त्यद् तद् यद् एतद् प्रमुखाणामाद्वेर इत्यकारे दकारस्थाने कृते लुगस्यादेत्यपदे इत्यकारलुकि
तः सौसः ॥ २|१|४२॥
taaratai सम्बन्धिनि सौ परे तकारस्य सः स्यात् । स्यः । त्यौ । त्ये । त्यम् इत्यादि सर्ववत् । सम्बन्धिवचनान्नेह प्रियत्यद् पुमान् । त्यच्छन्दस्तच्छब्दार्थ एव । सः तौ ते । यः यौ ये । एषः एतौ एते ।
त्यदामेनदेतदो द्वितीयाटस्य वृत्यन्ते || २|१|३३ ॥
त्यदादीनां सम्बन्धिन एतदित्यस्य द्वितीयायां दायामोसि च परतो ऽन्वादेशे वाच्ये एनदादेशः स्यात् । किंचित्कर्तुमुक्तस्य पुनः कथनमन्वादेशः । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेच सूत्राणि । अत्र साकोऽप्यादेशः । सुशीलावेतावथो एनौ गुरवो मानयन्ति ।