________________
५५
रक्षतु नाभेयोऽस्मान् प्रसीदतु नाभिभूः। वाक्पान्तरे न यात् । को पचत युष्माकं भविष्यति।
द्वित्वे वांनौ ॥२॥१॥२२॥ समविभक्तिद्विवचनैः सह पदात्परयोयुष्मदस्मदोवा नौ वा स्याताम् । पातु वां नौ जिनोऽयं तु दद्याद्वां नौ परं पदम् । मनो वा नौ सदा भूयाहृढं धर्मे जिनोदिते ॥१॥ पक्षे पातु युवां जिन इत्यादि।
डेङसा ते मे ॥२॥१॥२३॥ पदास्परयोर्युष्मदस्मदोर्जे जस् इत्येताभ्यांसह ते मे इत्यादेशो वा स्याताम्। धर्मों ददातु ते श्रेयश्चारित्रं मे गुणोज्वलम् । जिनार्चनं धनं तेऽस्ति धनं मे धर्मसाधनम् ।
अमा त्वा मा ॥२॥१॥२४॥ पदात्परयोयुष्मदस्मदोरमा द्वितीयैकवचनेन सह त्वा मा इत्यादेशौ घा स्थाताम् । धर्मस्त्वा रक्षताज्जैनः पालयेन्मा क्षमापरम् ।
नित्यमन्वादेशे ॥२॥१॥३१॥ कथितानुकथनमन्वादेशः । तद्विषये पदात्परयोयुष्मदस्मदोर्यदुक्तं वसू नसू आदि तन्नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरवो मानयन्ति।
चाऽह ह वैव योगे ॥२॥१॥१९॥ च अहह था एव इस्येतैोंगे सम्बन्धे पदात्परयोयुष्मदस्मदोर्यदुक्तं वसनसादि तन्न स्यात् । जिनस्त्वां मां च रक्षतु । योगग्रहणात् साक्षायोगेऽयं निषेधः। पारम्पर्ये तु स्यादेव । पावों वीरश्च मे स्वामी।
दृश्यर्थैश्विन्तायाम् ॥२॥१॥३०॥ दृश्यर्थैर्धातुभिश्चिन्तायां वर्तमानयोगे धसूनसादिर्न स्यात् । चेतसा त्वां समीक्षते । गुरुस्तव कार्यमालोचयति । परम्परासम्बन्धेप्ययं निषेधः। भक्तस्तव रूपं निध्यायति । चिन्तायामिति किम् ? जनो यः पश्यति । चक्षुषा पश्यतीत्यर्थः।
सपूर्वात्प्रथमान्ताद्वा ॥२॥१॥३२॥ पूर्वपदसहितात् प्रथमान्तात्परयोयुष्मदस्मदोरन्वादेशे वसादय आदेशा पा स्युः । यूयं विनीतास्तद्वो गुरवो मानयन्ति । तद्रवो युष्मान मानपन्ति था।