________________
५४
अतियुष्मान् । अत्यस्मान् । अतियुष्मया। अत्यस्मया । अतियुष्माभ्याम् । अत्यस्माभ्यामिति भ्याम्त्रयेऽपि तुल्यम् । अतियुष्माभिः । अत्यस्माभिः । चतुथीं भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । उसिभ्यसोईयोरपि अतियुष्मत् अत्यस्मत् । ओसि अतियुष्मयोः अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । अति. युष्मयि । अत्यस्मयि । अतियुष्मासु। अत्यस्मासु। एवं प्रियत्वम् प्रियाहमित्यादिरूपाणि । सङ्ग्रहश्लोका अप्यन्त्र 'सौ स्तस्त्वमहमादेशौ जसि यूयं वयं तथा । तुभ्यं मह्यं च डेस्थाने उसस्तवममाविह ॥ १॥ एभिस्त्वमयुवावानां बाधा सूत्रैः परस्थितैः । येकसंख्ये समासार्थे तयोश्चेद्वयेकतार्थता ॥२॥ अन्यसंख्ये समासार्थे तयोर्येकत्त्ववाचिनो स्यातां स्वमौ युवावी चादेशो समस्यमानयोः ॥३॥ समासार्थों द्वयेकसंख्यो बह्वर्थे युष्मदस्मदी। त्वमौ युवावौ न स्यातां स्वरूपस्थितिरेतयोः॥४॥ ननु त्वं स्त्री अहं स्त्री इत्यत्र युष्मद् स् अस्मद् स् इति स्थिते सिना सहैकादेशकरणान्न स्त्रीव्यञ्जकस्यापो व्यक्तिः। परं द्विवचने युवावा. देशे सस्वरत्वेऽथवा व्यञ्जनान्तत्वेऽपि दिशा वाचा इत्यादिवत्कथं नाप् । इति चेन्न । अलिङ्गे युष्मदस्मदी इति नाप । अथ युष्मानमान्वाऽऽचष्टे इति णिचि किपि तल्लुकि च युष्म् अस्म् इति मान्तवे रूपाणि यथा स्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् । युषान् । असान् । युष्मा । अस्मा । युवाभ्याम् ३ । आवाभ्याम् ३ । युषाभिः । असाभिः। तुभ्यम् । मखम् । युषभ्यम् । असभ्यम् । युषत् २। असत् २। तव । मम । युष्योः २। अस्योः । युषाकम् । असाकम् । युष्मि । अस्मि । युषासु । असासु । अत्र
___ मोर्वा ॥२२॥९॥ युष्मदस्मदोर्मकारान्तयोस्तदतत्सम्बन्धिनि शेषे स्यादौ परे मकारस्य वा लुक् स्यात् । युषभ्यम् । युष्मभ्यम् । असभ्यम् । अस्मभ्यम् । एवं ऊसिभ्यसो. युषत् । असत् । युष्मत् । अस्मत् । आमि युषाकम् । असाकम् । युष्माकम् । अस्माकम् । शेषे इत्येव । शसि भिसि सुपि च युष्मदस्मदोरित्यात्वम् । अथानयोरादेशविशेषाः। पदाधुग् विभक्त्यैकवाक्ये वस्नसौ च बहुत्वे ॥
२॥१॥२१॥ द्वितीयाचतुर्थीषष्ठीयुग्विभक्तिः। तया सह पदात्परयोयुष्मदस्मदो क्रमात् वसू नसू इत्यादेशौ वा स्याताम् बहुवे । तच्चेत्पदं युष्मदस्मदी चैकस्मिन् पाक्ये भवता । धर्मो रक्षतु वो लोका धर्मो रक्षतु नः सदा । नमो वः श्रीजिनाः शुद्धं ज्ञानं नो दीयतां धनम् ॥१॥ दर्शनं वो जिनाधीशाः पापं हरतु नो रयात् । धर्मो रक्षतु युष्मान्स पक्षे वाक्यं विकल्पनात् ॥ २॥ पदादिति किम् । युष्मान्