________________
नतु सर्वस्य । तेन युवकाभ्याम् । आयकाभ्यामित्यत्राकः श्रुतिः । युवयोरावयोरित्यत्र तु दस्य यत्त्वं सिद्धम् ।
यूयं वयं जसा ॥२॥१॥१३॥ युष्मदस्मदोस्तदतत्सम्बन्धिना जसा सह क्रमात् यूयं वयमित्यादेशौ स्तः । प्राक् चाकः। यूयम् । वयम् । यूयकम् । वयकम् ।
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२॥१॥११॥
एकत्वविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य तदतत्सम्बन्धिनि स्थादौ परे प्रत्ययोत्तरपदयोश्च क्रमात्त्वम इत्यादेशौ स्तः। अत्रापि अविश्लेषे त्वम इति च सखरादेशे लुगस्येत्यकारलुकि दकारस्य युष्मदस्मदोरित्यात्वे स्वाम् । माम् । व्यञ्जनान्तादेशेऽकारः सन्धेयः । त्वाम् । माम् ।।
शसो नः ॥२॥१॥१७॥ युष्मदस्मद्भ्यां परस्य तदतत्सम्बन्धिनः शसः स्थाने न इत्यादेशः स्यात् । युष्मदस्मदोरिति दकारस्याकारः । समानानां तेन दीर्घः । युष्मान् । अस्मान् । तृतीयैकवचने।
टायोसि यः ॥२॥१॥७॥ युष्मदस्मदोः स्वान्यसम्बन्धिषु टा डि ओस् एषु परेषु यकारोऽन्तादेशः स्यात् । त्वया । मया । युवद् अग्रे भ्याम् दस्याऽऽत्वे युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः । दकारस्याकारात् ।
तुभ्यं मह्यं ड्या ॥२॥१॥१४॥ युष्मदस्मदोः खान्यसम्बन्धिना के प्रत्ययेन सह तुभ्यम् मह्यम् इत्यादेशौ स्तः प्राक्चाकः । तुभ्यम् । मह्यम् । तुभ्यकम् । मह्यकम्। युवाभ्याम् । आवाभ्याम् मारवत् ।
अभ्यम् भ्यसः ॥२॥१॥१८॥ - युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो भ्यसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशः स्यात्।
शेषे लुक् ॥२॥१॥८॥ यत्र प्रत्यये आस्वयकारौ विहितौ ततोऽन्यः शेषस्तस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुक् स्यात् । अनेन दलोपः । युष्मभ्यम् । अस्मभ्यम् । अकारोऽत्र व्यञ्जने परे आस्वमुक्तं तन्निवृत्त्यर्थः । 'शसो न: "भ्यसो भ्यम्' इत्यकृत्वा पुरत एव