________________
स्यात् । भवान् । भवन्तौ। भवन्तः। हे भवन् । एवं मतुप्प्रत्ययान्ताः । गोमान् । गोमन्तौ।गोमन्तः। अभ्वादेरिति किम् ? पिण्डं असते इति पिण्डग्रः। अर्थवद्रहणे नानर्थकस्येत्येव सिद्धेऽभ्वादेरिति वचनमनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च सदन्तविधि प्रयोजयन्तीति न्यायज्ञापनार्थम् तेन खरणाः। खुरणा इत्यादि । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव निषेधकम् । तेन गोमन्तमिच्छतीति क्यनि किपि गोमान् । शेष इत्येव । हे भवन् । नान्तविधी अचः। ऋदु. दित इति भिन्नयोगविधेादेर्धातोन नोऽन्तः। सम्राट् । तिवृधातोस्तिव् इत्यादी ऋदित्वेऽपि धुडन्तस्वाभावान नोऽन्तः इति । शत्रन्तभवच्छब्देन दीर्घः । भवन् । भवन्तौ । भवन्तः। ददत् । दधत् । इत्यादौ नान्ते प्राप्ते ददन्त इति जाते अन्तो नोलुक् इति वक्ष्यमाणसूत्रानकारस्य लुकाददत् पुरुषः ददती। ददतः।दयाम्। देधीवेवीङोर्डिवेनाऽऽत्मनेपदे प्राप्सेऽनित्यत्वाच्छान्दसत्वाद्वा परस्मैपदम् । दी. ध्यत् । वेव्यत् । दीध्यतौ । वेव्यतो । इति केचित्। थकारान्तो मथ्। विरामे वा । मत् । मद् । मथौ । मथः । मद्याम् । दान्तास्त्यदादयः। तेषु प्रथमं युष्मदस्मदोस्त्रिषु लिङ्गेषु समान रूपम् । तयोरलिङ्गत्वात् । मुख्यत्वे गौणत्वे च रूपाणां साधनं यथा ।
त्वमहं सिना प्राक् चाकः ॥२॥१॥१२॥ __युष्मदस्मदोस्तदतत्सम्बन्धिना सिना सह क्रमास्त्वमहमित्यादेशौ स्याताम् । तौ चाकः प्रसङ्गेऽकः प्रागेव स्तः । त्वम् । अहम् । परमस्वम् । अतित्वम् । अतिक्रान्तस्त्वामिति वाक्यात् । परमाहम् । अत्यहम् । अतिक्रान्तो मामिति वाक्यात् । अकूप्रत्यये त्वकम् । अहकम् । द्विवचने
मन्तस्य युवावौ द्वयोः ॥२॥१॥१०॥ द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारावसानस्यावयवस्य तदतत्सम्बन्धिनि स्यादौ परे क्रमाधुवाव इत्यादेशौ स्तः । यदा सस्वरावेतौ तदा अद् इति विश्लेषः। तेनाऽकारेण सह लुगस्यादेत्यपदे इति करणाहकारमानं शेषः। युवद् आवद् इति स्थिते
_अमौ मः ॥२॥१॥१६॥ युष्मदस्मद्भ्यां परयोस्तदतत्सम्बन्धिनोरम् औ इत्येतयोर्म इति व्यञ्जनमात्रमादेशः स्यात् ।
युष्मदस्मदोः ॥२॥१६॥ युष्मदस्मद् इत्येतयोस्तदतत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशः स्यात् । इति दकारस्यात्वे युवाम् । आवाम् । यदा व्यञ्जनान्तावतावादेशी तदा अदित्यस्याकारो वकारे सन्धेयः । मन्तस्येति किम् ? मकारावधेर्यथा स्यात्।