________________
इति षत्वे तृतीयस्वेन डकारे विरामेवेति मूलवृट् । मूलधृड् । मूलवृश्चौ । मूलवृ. इभ्याम् । मूलवृद्सु । छकारान्तः शब्दप्राछ शब्दः। तस्यानुनासिके च छः शूद इति शकारे कृते तस्य षत्वे तृतीयखे डवे शब्दप्राट् । शब्दप्राशौ । शब्दमाशः। शब्दमाच्छौ । शब्दप्राच्छः इत्यपि कश्चित् । तन्मते शवमनित्यम् । षस्वम् । शब्दप्राट्सु । जकारान्तो देवेज् । तस्य देवेट् । देवेड् । देवेड्भ्याम् । क्विवन्तस्वात् वृत्। उपयजतीति उपयट् । विच्प्रत्ययान्तोऽयम् । तेन न वृत् । तीर्थमृट् । मृट् । मृड् । मृजौ । मृजः । मृड्भ्याम् । सम्राट् । सम्राजौ। सम्राड्भ्याम् । सम्रात्सु । हे सम्राट् । भृट् । भृड् । सस्य चवर्गयोगाच्छकारः। तस्य तृतीयस्तृतीयचतुर्थे इति जकारे भृजौ । भृजः। भृड्भ्याम् । परिवाद । परिवाड्। परिव्राजौ । परिव्राजः। परिवाभ्याम् ।
युज्रोऽसमासे ॥१॥४॥७१॥ युलॅपी योगे इत्यस्यासमासे धुडन्तस्य घुटि परे धुटः प्राक् नोऽन्तः स्यात् । युः । युक्षौ । युतः । असमासे इति किम् ? अश्वयुक् । अश्वयुग । अश्वयुजौ । अश्वयुजः । ऋदिनिर्देशः किम् ? युजिंच समाधी इत्यस्य मा भूत्।युक युजो । युजः। युजमापन्नाः समाधि प्राप्ता इत्यथे। विभ्राजशब्दद्वयम् । एको राजसहचरितः। तस्य विभ्राट् । विभ्राडू । विभ्राड्भ्याम् इति षत्वे डत्वम् । द्वितीयस्तु राजुङ् ब्रेजुङ भ्राज दीप्तो। इत्यस्य गत्वमेव विभ्राक् । विभ्राम्। विभ्रारभ्याम् इत्यादि । विभ्राजावित्यादि द्वयोस्तुल्यमेव । ऋतौ यजतीति ऋत्विज् । जस्य वक्ष्यमाण ऋत्विजदिशित्यादिसूत्रेण गः। ऋत्विक । ऋत्विम् । ऋविग्भ्याम् । विश्वाराट् । विश्वराजौ। विश्वराजः । अत्र दीर्घवं समासे वक्ष्यते। ऊर्जशब्दः। ऊर्क। ऊर्ग। ऊौं । ऊर्जः। कराम् इत्यादि।
रात्सः ॥२॥११९०॥ पदान्ते संयोगे रेफात्परस्य सस्यैव लुक स्यात् । इति पदस्येत्यनेन न कलोपः। तकारान्तो मरुत्शन्दः । मरुत् । मरुदू । मरुतौ । मरुतः । मरुद्भ्याम् । मरुत्सु । महत्शन्दे
तः ॥१॥४॥७॥ श्रादित उदितश्च धुडन्तस्य तदतत्सम्बन्धिनि घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तः स्यात् । समहतोरिति दीर्घत्वे महान्।महन्तौ । महान्तः। शेषे घुटीत्येव । हे महन् । महतः। महता। मह ज्याम् इत्यादि । शतृप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः । पचत् । पचन्तौ । पश्चन्तः । हे पचन् । उकारानुबन्धो भवत्शब्दः ।
अभ्वादेरत्वसः सौ ॥१।४।९०॥ अत्यन्तस्यासन्तस्य च भ्वादिवर्जितस्य सम्बन्धिना स्वरस्य शेषे सौ परे दीर्घः