________________
४९ स्यात् । अदद्रि अच् इति जाते यकारे अदव्यच् स् इति स्थिते प्रागवत् सेलकि पदस्येति चकारलोपे नान्ते च । नकारस्य ङकारत्वे प्राप्ते ।
वाद्रौ ॥२॥१॥४६॥ अदसोऽद्रावन्ते सति दकारस्य मकारो वा स्यात् । द्वावत्र दकारौ । तत्र विकल्पे सति मादुवर्णोऽनु इत्यनेन मकारोत्तरवर्णमात्रस्योवर्णत्वे चातुरूप्यम् । अदमुयङ् । अमुयडू । अमुमुयडू। अदव्यडू। एषु दिइत्यस्य दकाररेफयोर्मध्ये दस्य मले रेफस्योत्वम् । अदमुयञ्चौ । अदमुयश्चः। अदमुयश्चम् । अदमुयश्चौ । शसि अदमुईचः। अदमुईचा। अदोमुमीति न सन्धिः। अदमुयग्भ्याम् इत्यादि। एवं च शब्दचतुष्टयं साध्यम्। विश्वय। देवव्यङ्। उदङ् । उदश्चौ। उदश्चः । शसादौ ।
उदच उदीचू ॥२॥११०३॥ उदचोनानोणि क्यघुड्वर्जे यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्यादेशः स्यात् । उदीचः । उदीचा । उदग्भ्याम् ।
सहसमोः सध्रिसमी ॥३॥२।१२३॥ कियन्तेऽञ्चतौ परे सहस्य सध्रिः समः समि इत्यादेशौ स्तः । सहाञ्चतीति सभयङ्क । समञ्चतीति सम्यङ् । सधीचः । समीचः ।
तिरसस्तियति ॥३।२।१२४॥ अकारादौ किवन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यश्चौ । तिर्यञ्चः । अकारादाविति किम् ? शसादौ वरे च श्च् शेषे मा भूत् । तिरश्वः । तिरश्चा । तिर्यग्भ्याम् । तिर्यक्षु । अर्चार्थे तु अञ्चते कारस्य लुम् न स्थादिति । प्राशब्दे सौ अच इति न नोऽन्तः । प्राङ् । प्राञ्चौ । प्राश्चः। शसादौ प्राञ्चः। प्राचा । प्राभ्याम् । प्राच । प्रार्छ । एवं प्रत्यञ्चशब्देपि । प्रत्यञ्चः । क्रुनचशब्दे युञ्जक्रुश्चोनो इति सौत्रनिर्देशादेव नलोपाभावात् क्रुङ् । क्रुञ्चौ। क्रुश्चः । क्रुचा । क्रुभ्याम् । मूलवृश्चशब्दे
संयोगस्यादौ स्कोर्लुक् ॥२॥११८८॥ घुटि प्रत्यये पदान्ते च संयोगस्यादौ वर्तमानयोः सकारककारयोलक स्यात् । इति सलोपे। यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः
शः षः ॥२॥१॥८७॥ यजादीनां धातूनां चजः, शकारस्य च धुटि प्रत्यये परे पदान्ते च ष: स्यात् ।
चं.
प्र.